अध्वर्युवेदे यस्य क्रतोर् विधानं सो ऽध्वर्युक्रतुः। अध्वर्युक्रतुवाचिनां शब्दानाम् अनपुंसकलिङ्गानां द्वन्द्वः एकवद् भवति। अध्वर्युक्रतुरनपुंसकं द्वन्द्वः इति गौणो निर्देशः। अर्काश्वमेधम्। सायाह्नातिरात्रम्। अध्वर्युक्रतुः इति किम्? इषुवज्रौ। उद्भिद्बलभिदौ। अनपुंसकम् इति किम्? राजसूयवाजपेये। इह कस्मान् न भवति, दर्शपौर्णमासौ? क्रतुशब्दः सोमयागेषु रूढः।
"अध्वर्युवेदे" इति। ऐतेनाध्वर्युशब्दनात्र यजुर्वेदो लक्ष्यत इति दर्शयति।
अथाष्वर्योरृत्विग्विशेषस्य यः क्रतुरिति क्रतुविशेषणमेवाध्वर्युग्रहणं कस्मान्न विज्ञायते? असम्भवात्; को हि तस्य क्रतुर्भवति ! अपि तु घनव्ययशीलस्य। यद्यपि तस्य क्रतौ कर्त्तृत्वमस्ति तदपि ऋत्विगन्तरेण साधारणमित्यध्वर्युणैकेन तस्य विशेषणमयुक्तम्। ननु चाथर्ववेदविहितो यः क्रतुस्तन्निवृत्त्यर्थमध्वर्युणैकेन कथं विशेषणं न स्यात्;
न हि त्तराध्वर्यवः सन्ति? नैतदस्ति; यदि ह्रेतावत् प्रयोजनमभिहितं स्यात् तदाऽनथर्वण इति प्रतिषेधमेव कुर्यात्। लघीयसी हि साक्षात् प्रतिषेधे प्रतीतिर्भवति। त्रयीग्रहणं वा कुर्यात्।
यदि चाध्वर्युणा क्रतुर्विशेष्येत तदेषुवज्रावित्यत्रापि स्यात्? इषुवज्रावपि ह्रध्वर्योः क्रतू भवतः; तयोरपि तत्कर्तृकत्वात्। तस्मादध्वर्यूणां यजुर्वेदविदां यो वेदः सोऽध्वर्युशब्देनोपलक्ष्यते। स पुनर्यजुर्वेदः। तत्राध्वर्युवेदे यस्य क्रतोर्विधानं सोऽध्वर्युक्रतुरिति। इतिकत्र्तव्यतोपदेशः प्रयोगश्चानुष्ठानात्मको विधानशब्देनोक्तः। यदि तह्र्रध्वर्युक्रतुवाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवद्भवतीति सूत्रार्थस्तदा सूत्रेऽध्वर्युक्रतुशब्दस्यानपुंसकमित्यस्य च द्वन्द्व इ()तयनेन प्रकृतेन सामानाधिकरण्येन निर्देशो नोपपद्यते।
अतोऽध्वर्युक्रतुवाचिनामनपुंसकलिङ्गानामिति वक्तव्यं स्यादित्यत आह-- "अध्वर्युक्रतुरनपुंसकम्" इति। "गौणोऽयं निर्देशः" इति। गौण इत्यमुख्य औपचारिक इत्यर्थः। अध्वर्युक्रत्ववयवो द्वन्द्व उपचारेणाध्वर्युक्रतुरित्युक्तः। स एवानपुंसकलिङ्गावयवोऽनपुंलकमिति। गौणन्र्दिएशस्तु लाघवार्थो वेदितव्यः। यदि पुनरनपुंसकमित्यनेन मुख्यया वृत्त्या द्वन्द्व एवोच्येत तदा "स नपुसंकम्"
२।४।१७ इत्यस्यापवादोऽयं विज्ञायेत। "अर्का()आमेधम्" इत्यादि। अर्कश्चा()आमेधश्चेत्यर्का()आमेधम्। सायाह्नश्चातिरात्रश्चेति "सायाह्नातिरात्रम्"।
"इषुवज्रौ" इत्यादि। इषुवज्रप्रभृतयोऽध्वर्युक्रतवो न सम्भवति, न हि तेषामध्वर्युवेदे विधानम्।
किं तर्हि? सामवेदे। "राजसूयवाजपेये" इति। एतौ राजसूयवाजपेयशब्दौ पुंल्लिङ्गावपि स्तः। तत्र यदा नपुंसकलिङ्गौ प्रयुज्येते तत्रेदं प्रत्युदाहरणम्। "सोमयागेषु" इति। यत्र यत्र सोमपानं विहितं ते सोमयागाः। तेष्वेव क्रतुशब्दो रूढः। न च दर्शपौर्णमासौ सोमयागौ। "अनपुंसकम्"
२।४।४ इत्युपादानात् स्वरूपग्रहणमिह न भवति। न हि क्रतुसामान्यो नपुंसकलिङ्गो भवति॥
अध्वर्युक्रतुः। अध्वर्युशब्दोऽत्राध्वर्युकर्मविधायकजुर्वेदपरः। तदाह--यजुर्वेद इति। अर्का()आमेधमिति। अर्को--महाक्रतुः। अ()आमेधो नाम प्रसिद्धः। उभौ यजुर्वेदविहितक्रतू। अर्कस्य च अ()आमेधस्य च समाहार इति विग्रहः। इषुवज्राविति। क्रतुविशेषावेतौ न यजुर्वेदविहिताविति भावः। तर्हि कस्मिन्वेदे विहितावित्यत आह--सामेति। राजसूयवाजपेये इति। एतयोर्यजुर्वेदविहितत्वेऽपि नपुंसकत्वान्नैकवत्त्वमिति भावः। राजसूयवाजपेययोः पुंलिङ्गतया प्रसिद्धेराह--अर्धर्चादी इति। अध्ययनतः। "अविप्रकृष्टाख्याना"मिति च्छेदः। "अध्ययनत" इति तृतीयार्थे तसिः।