प्रथमावृत्तिः
सूत्रम्॥
दीर्घं च॥ १।४।१२
पदच्छेदः॥
दीर्घम् १।१ च ० गुरु १।१ ११
अर्थः॥
दीर्घं च अक्षरं गुरुसंयकं भवति।
उदाहरणम्॥
ईहाञ्चके। ऊहाञ्चके।
काशिका-वृत्तिः
दीर्घं च १।४।१२
संयोगे इति न अनुवर्तते। सामान्येन संज्ञाविधान। दीर्घं च अक्षरं गुरुसंज्ञं भवति। ईहाञ्चक्रे। ईक्षाञ्चक्रे।
लघु-सिद्धान्त-कौमुदी
दीर्घं च ४५२, १।४।१२
गुरु स्यात्॥
न्यासः
दीर्घञ्च। , १।४।१२
"ईहाञ्चक्रे, उहाञ्चक्रे" इति। "आम्प्रत्ययवत्"
१।३।६३ इत्यादौ सूत्र एते व्यत्पादिते। गुरुसंज्ञायां त्वत्र कार्यम्- "इजादेश्च गुरुमतोऽनुच्छः
३।१।३६ इत्यात्मप्रत्ययः॥
बाल-मनोरमा
दीर्घं च ४३४, १।४।१२
दीर्घं च। संयोग इति नानुवर्तते। दीर्घमपि गुरुसंज्ञकमित्यर्थः। इति संज्ञाप्रकरणमिति। सन्धिकार्योपयोगिप्रथमाध्यायस्थसंज्ञानिरूपणं समाप्तमित्यर्थः।
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां संज्ञाप्रकरणं समाप्तम्॥
********************
अथ सन्नन्तप्रक्रिया।
अथ सन्प्रक्रिया निरूप्यन्ते।