काडराः कर्मधारये
२।२।३८ इति वक्ष्यति। आ एतस्मात् सूत्रावधेर्यदित ऊर्ध्वम् अनुक्रमिष्यामः, तत्र एका संज्ञा भवति इति वेदितव्यम्।
का पुनरसौ? या परा अनवकाशा च। अन्यत्र सञ्जासमावेशान् नियमार्थं वचनम् एकैव संज्ञा भवति इति। वक्ष्यति ह्रस्वं लघु
१।४।१०, भिदि, छिदि भेत्ता, छेत्ता। संयोगे गुरु
१।४।११, शिक्षि, भिक्षि शिक्षा, भिक्षा। संयोगपरस्य ह्रस्वस्य लघुसंज्ञा प्राप्नोति, गुरुसंज्ञा च। एका संज्ञा इति वचनाद् गुरुसंज्ञा एव भवति। अततक्षत्, अररक्षत्, सन्वल्लघुनि चङ्परे ऽनग्लोपे
७।४।९३ इत्येष विधिर् न भवति।
"या परा" इति। यत्र विप्रतिषेधस्तत्र "विप्रतिषेधे परम्"
१।४।२ इति वचनात् परा भवति। "अनवकाशा च या" इति। यस्याः संज्ञायाः क्वचिदवकाशो नास्ति, साऽप्यपवादभूत्वात् संज्ञान्तरं बाधित्वा प्रवत्र्तते। यद्येवम्, अत एव संज्ञासमावेशो न भविष्यति,
तत् किमेकसंज्ञाधिकारेण? नैतदस्ति, विरोधे हि सत्यपवादभूतत्वं भवति। विप्रतिषेधस्तु विरोध एव, स च विरोध एकसंज्ञाधिकारे सति भवति, नासति; तथा हि यत्रैकसंज्ञाधिकारो नास्ति, तत्र विप्रतिषेधो नास्त्येव, यथा-- प्रत्ययादीनां संज्ञायाम्; तस्मादस्मिन्नधिकारे सति विरोधो भवति। त()स्मश्च सति "विरोधे परम्" इति वचनात् परा भवति,?पवादभूतत्वादनवकाशा च। तस्मात् कत्र्तव्योऽयमधिकारः।
यद्येवम्, अङसंज्ञायां भपदसंज्ञयोः समावेशो वक्तव्यः-- बाभ्रव्यः, धानुष्क इति। बभ्रुशब्दात् "मधुब्राभ्व्रोब्र्राआहृणकौशिकयोः"
४।१।१०६ इति यञ्। तत्र भत्वात् "ओर्गुणः"
६।४।१४६ अङ्गत्वादादिवृद्धिः, तत्र "वान्तो यि प्रत्यये"
६।१।७६ इत्यवादेशः; धनुःशब्दाच्च धनुः प्रहरणमस्य "तदस्य प्रहरणम्"
४।४।५७ इति ठक्; "इसुसुक्तान्तात्कः"
७।३।५१ इति कादेशः, अत्र पदत्वात् "इणः षः"
८।३।३९ इति षत्वम्।
अङ्गत्वादादिवृद्धिर्न वक्तव्या। "वा क्यषः"
१।३।९० इततो वाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेन क्वचित् संज्ञासमावेशो भविष्यतीति। "अन्यत्र " इति। लोके च, शास्त्रे च। लोके तावत्-- इन्द्रः, शुक्रः, पुरन्दर इति संज्ञायाः समावेशो दृष्टः। शास्त्रेऽपि प्रत्ययः,कृत्, कृत्यप्रत्ययः। एवमन्यत्र संज्ञासमावेशादिहापि स्यात्, अतएवैका संज्ञा यथा स्यादिति नियमार्थमेतत्। "भिदिश्छिदिः" इति। लघुसंज्ञाया अवकाशः। प्रयोजनं तु-- "भेत्ता, छेत्ता" इति। "पुगन्तलघूपधस्य"
७।३।८६ इति गुणः। "शिक्षिर्भिक्षिः" इति। गुरुसंज्ञाया अवकाशः। प्रयोजनं-- "शिक्षा, भिक्षा" इत। "गुरोश्च हलः"
३।३।१०३ इत्यकारप्रत्ययः। लघुसंज्ञा त्वत्र प्रयोजनाभावान्न भवति। इहोभयं प्राप्नोति-- "अततक्षत्, अररक्षत्" इति। परत्वाद्गुरुसंज्ञैव भवति। "तक्षूत्वक्षू तनूकरणे" (धा।पा।६५५, ६५६), "रक्ष पालने" (धा।पा।६५र८), हेतुमण्णिच्, लुङ, च्लेश्चङ, णिलोपः, "चङि"
६।१।११ इति द्वर्वचनम्। यद्यत्र लघुसंज्ञा स्यात्, "सन्वल्लघुनि"
७।४।९३ इत्यादिना सन्वद्भावादित्वं स्यात्। तदभावान्न भवतीत्याह-- "सन्वल्लघुनि" इत्यादि। "एष विधिः " इति। सन्वद्भावविधिः। परस्या इदमुदाहरणमुक्तम्। अनवकाशायास्तूच्यते-- अयन्ते योनिरृत्विय इति। ऋतुः प्राप्तोऽस्तेति "ऋतोरण्"
५।१।१०४ "छन्दसि घस्"
५।१।१०५ इति घस्; तस्येयादेशे कृते "सिति च"
१।४।१६ इति पदसंज्ञा प्राप्नोति, "यचि भम्"
१।४।१८ इति भसंज्ञा च, अनवकाशत्वात् पदसंज्ञैव भवति। यदि भसंज्ञा स्यात् तदा "ओर्गुणः"
६।४।१४६ इति गुणः स्यात्। भसंज्ञायास्त्वौपगवादिष्ववकाशः। आ कडारादितीयतोऽवधेग्र्रहणं वैचित्र्यार्थम्; अन्यथा हि "आ द्वन्द्वात इत्येवं ब्राऊयात्। न हि द्वन्द्वसंशब्दानात् परेणाकडारादेकसंज्ञाविधानस्य प्रयोजनमस्ति; यत एतावतोऽवधेग्र्रहणमर्थवद्भवति॥