तदस्य प्राप्तम् इत्यनुवर्तते। ऋतुशब्दात् तदिति प्रथमासमर्थातस्य इति षष्ठ्यर्थे अण् प्रत्ययो भवति तदस्य प्राप्तम् इत्येतस्मिन् विषये। ऋतुः प्राप्तो ऽस्य आर्तवं पुष्पम्। तदस्य प्रकरणे उपवस्त्रादिभ्यः उपसङ्ख्यानम्। उपवस्ता प्राप्तो ऽस्य औपवस्त्रम्। प्राशिता प्राप्तो ऽस्य प्राशित्रम्।
वसन्तोऽस्य पुष्पदेरृतुः प्राप्तः,
स तस्य जनकत्वात्? प्रयोजको भवतीति "प्रयोजनम्()"
५।१।१०८ इति ठञि प्राप्ते सत्ययमारभ्यते॥