प्रथमावृत्तिः
सूत्रम्॥
चुटू॥ १।३।७
पदच्छेदः॥
चुटू १।२ प्रत्ययस्य ६।१ ६ आदिः १।१ ५ उपदेशे ७।१ २ इत् १।१ २
समासः॥
चुश्च टुश्च चुटू, इतरेतरद्वन्द्वः
अर्थः॥
उपदेशे प्रत्ययस्य आदी वचर्ग-टवर्गौ इत्संज्ञकौ भवतः
उदाहरणम्॥
कौञ्जायन्यः। ब्राह्मणाः। शाण्डिक्यः। टवर्गः - वाचा। कुरुचरी, मन्द्रचरी। उपराजः, मन्दुरजः। आन्नः॥
काशिका-वृत्तिः
दुटू १।३।७
चवर्गटवर्गौ प्रत्ययस्यादी इत्सञ्जौ भवतः। गोत्रे कुञ्जाऽदिभ्यश्च्फः
४।१।९८ कौञ्जायनः। छस्य ईयादेशं वक्ष्यति। जस् ब्राह्मणाः झस्य अन्ताऽदेशं वक्ष्यति। शण्डिकाऽदिभ्यो ञ्यः
४।३।९२ शाण्डिक्यः। तवर्गः, चरेष्टः
३।२।१६ कुरुचरी, मद्रचरी। ठस्य इकादेशं वक्ष्यति। सप्तम्यां जनेर् डः
३।२।९७ उपसरजः, मन्दुरजः। ढस्य एयादेशं वक्ष्यति। अन्नाण्णं
४।४।८५ आन्नः। पृथग्योगकरणम् अस्य विधेरनित्यत्वज्ञापनार्थम्। तेन वित्तश्चुञ्चुप्चणपौ
५।२।२६ केशचुञ्चुः, केशचणः। अवात् कुटारच् च
५।२।३०, नते नासिकायाः संज्ञायां टिटञ्नाट्ज्भ्रटचः
५।२।३१ अवटीतः। आदिः इत्येव। कर्मणि घटो ऽठच्
५।२।३५ कर्मठः।
लघु-सिद्धान्त-कौमुदी
चुटू १२९, १।३।७
प्रत्ययाद्यौ चुटू इतौ स्तः॥
न्यासः
चुटू। , १।३।७
"कौञ्जायन्यः" इति। च्फञन्तात् "व्रातच्फञोरस्त्रियाम्"
५।३।११३ इति स्वार्थे ञ्यः। "छस्येयादेशं वक्ष्यति" इति। इत्संज्ञापवादम्। "शाण्डिक्यः" इति। "शण्डिकादिभ्यो ञ्यः"
४।३।९२ इति शण्डिकोऽभिजनोऽस्येत्यर्थे ञ्यः, तत्र हि "सोऽस्याभिजनः" इति वत्र्तते। "मन्दुरजः"इति। "ङयापोः संज्ञाच्छन्दसोर्बहुलम्"
६।३।६२ इति मन्दूराशब्दस्य ह्यस्वत्वम्। "अन्नाण्णः- आन्नः" इति। "अन्नं लब्धा" इत्य्रथे णः।
तत्र हि "धनगणं लब्धा"
४।४।८४ इत्यतो लब्धेत्यनुवत्र्तते। अथ किमर्थं पृथग्योगः
क्रियते, "चुटुषाः प्रत्ययस्य" इत्येक एव योगः क्रियतामित्यत आह-- "पृथग्योगकरणम्" इत्यादि। "तेन वित्तः"
५।२।२६ इत्यादिनाऽस्य विधेरनित्यत्वज्ञापनस्य प्रयोजनं
दर्शयति॥
बाल-मनोरमा
चुटू १८८, १।३।७
देवदत्तहन्तृंहतन्यायस्तु नात्र प्रवर्तत इति स्वादिसन्धौ मनोरथ इत्यत्र प्रञ्चितम्। राम जस् इति स्थिते--चुटू। "उपदेशेऽजनुनासिक इत्" इत्यतः "इ" दित्यनुवर्तते। तच्च द्विवचनान्ततया विपरिणम्यते। "आदिर्ञिटुडवः" इत्यत "आदि"ग्रहणमनुवर्त्त्य द्विवचनान्ततया विपरिणम्यते। "षः प्रत्ययस्ये"त्यनुवर्तते। तदाह--प्रत्ययाद्यावित्यादिना। इति जस्येति। इत्संज्ञायां तस्य लोप" इति लोपः। जकारस्तु जसश्शीत्यादौ शसो निवृत्त्यर्थः।
तत्त्व-बोधिनी
चुटू १५७, १।३।७
युटू। "आदिर्ञिटुडवः" इत्यत "आदिः," "षः प्रत्ययस्य" इत्यतः "प्रत्ययस्ये"ति चानुवर्तते, तदाह-प्रत्ययाद्याविति। प्रत्ययाद्यविति किम्?। वाचाटः। "तेन वित्तश्चुञ्चुप्चणपौ" इत्यत्र प्रत्ययादौ यकारो लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञेति वक्ष्यति।