पूर्वम्: ५।२।२९
अनन्तरम्: ५।२।३१
सूत्रम्
अवात् कुटारच्च॥
५।२।३०
काशिका-वृत्तिः
अवात् कुटारच् च
५।२।३०
अवशब्दात् कुटारच् प्रत्ययो भवति। चकारात् कटच्। अवकुटारम्, अबकटम्।
न्यासः
अवात्कुटारच्च।
, ५।२।३०
बाल-मनोरमा
अवात्कुटाराच्च
१८०८, ५।२।३०
अवात्कुटारच्च। क्रियाविशिष्टसाधानवाचकादवात्स्वार्थे कुटरच स्यादित्यर्थः। अवाचीन इति। अवाचीने विद्यमानादवात्कुटरचि अवकुटार इत्यर्थः।