प्रथमावृत्तिः
सूत्रम्॥
विभाषोर्णोः॥ १।२।३
पदच्छेदः॥
विभाषा १।१ ऊर्णोः ५।१ इट् १।१ २ ङित् १।१ १
अर्थः॥
{ऊर्णुञ् आच्छादने (अदा॰ उ॰)} अस्मात् परः इडादिः प्रत्ययः विभाषा ङिद्वत् भवति।
उदाहरणम्॥
ऊर्णुविता, ऊर्णविता।
काशिका-वृत्तिः
विभाषाऊर्णोः १।२।३
इटिति वर्तते। ऊर्णुञाच्छादने, अस्मात् परः इडादिः प्रत्ययो विभाषा ङिद्वद् भवति। प्रोर्णुविता। प्रोर्णविता। इटित्येव प्रोर्णवनम्। प्रोर्णवतीयम्।
लघु-सिद्धान्त-कौमुदी
विभाषोर्णोः ६०४, १।२।३
इडादिप्रत्ययो वा ङित्स्यात्। ऊर्णुनुविथ, ऊर्णुनविथ। ऊर्णुविता, ऊर्णविता। ऊर्णुविष्यति, ऊर्णविष्यति। ऊर्णौतु, ऊर्णोतु। ऊर्णवानि। ऊर्णवै॥
न्यासः
विभाषोर्णोः। , १।२।३
"प्रोर्णुविता" इति। ङित्वाद् गुणे प्रतिषिद्धे "अचि श्नुधातु"
६।४।७७ इत्यादिनोवङादेशः॥
बाल-मनोरमा
विभाषोर्णोः २७८, १।२।३
विभाषोर्णोः। "गाङ्कुटादिभ्यः" इत्यतो ङिदित्यनुवर्तते, "विज इ" डित्यत इडिति, --इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे-- इडादीति। ऊर्णुनुविथेति। ङित्त्वपक्षे गुणाऽभावादुवङ्। ऊर्णुनविथेति। ङित्त्वाऽभावपक्षे गुणः। ऊर्णुनुवथुः ऊर्णुनुव। ऊर्णुनाव -- ऊर्णुनव। लुटि तासि इटि ङित्त्वविकल्पं मत्त्वाऽऽह-- ऊर्णविता ऊर्णुवितेति। ऊर्णविष्यति ऊर्णुविष्यति। ऊर्णविष्यते-- ऊर्णुविष्यते। लङि और्णुदिति स्थिते "ऊर्णोतेर्विभाषे"ति वृद्धिविकल्पे, गुणे च प्राप्ते--