प्रथमावृत्तिः
सूत्रम्॥
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ॥ ६।४।७७
पदच्छेदः॥
अचि ७।१ १०० श्नुधातुभ्रुवाम् ६।३ य्वोः ६।२ ७८ इयङुवङौ १।२ ८० अङ्गस्य ६।१ १
समासः॥
श्नुश्च धातुश्च भ्रूश्च श्नुधातुभ्रुवः, तेषां ॰॥
इश्च उश्च यू, तयोः ॰॥
इयङ् च उवङ् च इयङुवङौ, सर्वत्रेतरद्वन्द्वः॥
अर्थः॥
श्नुप्रत्ययान्तस्य इवर्णोवर्णान्तधातोः भ्रू इत्येतस्य चाङ्गस्य इयङ्-उवङ्-इत्येतावादेशौ भवतोऽचि परतः॥
उदाहरणम्॥
श्नुप्रत्ययान्तस्य -- आप्नुवन्ति, राध्नुवन्ति, शक्नुवन्ति। इवर्णोवर्णान्तस्य धातोः -- चिक्षियतुः, चिक्षियुः, लुलुवतुः, लुलुवुः, नियौ, नियः, लुवौ, लुवः। भ्रू -- भ्रुवौ, भ्रुवः॥
काशिका-वृत्तिः
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ६।४।७७
श्नुप्रत्ययान्तस्य अङ्गस्य धातोः इवर्णौवर्णान्तस्य भ्रु इत्येतस्य इयङुवङित्येतावादेशौ भवतो ऽजादौ प्रत्यये परतः। आप्नुवन्ति। राध्नुवन्ति। शक्नुवन्ति। धातोः चिक्षियतुः। चिक्षियुः। लुलुवतुः। लुलुवुः। नियौ। नियः। लुवौ। लुवः। भ्रुवौ। भ्रुवः। अचि इति किम्? आप्नुयात्। शक्नुयात्। साध्नुयात्। श्नुधातुभ्रुवाम् इति किम्? लक्ष्म्यौ। वध्वै। य्वोः इति किम्? चक्रतुः। चक्रुः। इयङुवङ्भ्यां गुणवृद्धी भवतो विप्रतिषेधेन। चयनम्। चायकः। लवनम्। लावकः। इयङुवङ्प्रकरणे तन्वादीनां छन्दसि बहुलम् उपसङ्ख्यानं कर्तव्यम्। तन्वं पुषेम। तनुवं पुषेम। विष्वं पुषेम। विषुवं पुषेम। स्वर्गो लोकः। सुवर्गो लोकः। त्र्यम्बकं यजामहे। त्रियम्बकं यजामहे।
लघु-सिद्धान्त-कौमुदी
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ २००, ६।४।७७
श्नु प्रत्ययान्तस्येवर्णोवर्णान्तस्य धातोर्भ्रू इत्यस्य चाङ्गस्य चेयङुवङौ स्तोऽजादौ प्रत्यये परे। इति प्राप्ते॥
न्यासः
अचि श्नुधातुभ्रुवां व्योरियङुवङौ। , ६।४।७७
"आर्धधातुके" इति निवृत्तम्()।
कुतः? "समः क्ष्णुवः"
१।३।६५, "क्षियः
६।४।५९ इति निर्देशात्()। ह्यस्वयोरिवर्णोयोरिदं ग्रहणम्()।
कु एतत्()? तत एव निर्देशात्()।
अत्राण्? गृह्रमाणः सवर्णान्? ग्राहयतीति ह्यस्वौ गृहयमाणौ दीर्घावपि ग्राहयतः, तेन तदन्तस्यापि भवतः।
"अचि" इति वर्णग्रहणम्? तत्र "यस्मिन्विधिस्तदादावलगरहणे" (व्या।प।१२७) इत्यजादौ विज्ञायत इत्याह--"अजादौ प्रत्यये" इति।
प्रत्यय इत्येतत्? कृतो लभ्यते, अङ्गधिकारात्()। अङ्गाधिकारो ह्रस्ति, प्रत्यसन्निधापितत्वात्()। प्रत्यये हि परतोऽङ्गसंज्ञा विधीयते। यद्यजदौ प्रत्यय इयङुवङौ भवतः, नियौ, लुवौ--इत्यतर न प्राप्नुतः। अत्र ह्रजेव प्रत्ययः,
न त्वजादिः? अत्रापि व्यपदेशिवद्भावे, नाजादित्वमस्तीत्यदोषः। "इवर्णोवर्णान्तस्य" इति। धातोरेवेदं विशेषणम्(), नेतरयोः; व्यभिचाराभावात्(), असम्भवाच्च। इवर्णोवर्णान्तता चाङ्गस्य ताभ्यां विशेषणाल्लभ्यते। इयङुवङोङकारोऽन्तादेशार्()थः।
असति त्वस्मिन्ननेकाल्वात्? सर्वस्याङ्गस्य स्याताम्()। ननु च "निर्दिश्यमानस्यादेशा भवन्ति" (व्या।प।
१०६) इत्यन्तरेणापि ङ्कारमन्तवस्यैव भवतः? एवं तर्हि विस्पष्टार्थम्()। "आप्नुवन्ति, राध्नुवन्ति" इति। "आप्लु व्याप्तौ" (धा।पा।१२६०), "राध साध संसिदौ" (धा।पा।१२६२,१२६३) स्वादित्वाच्श्नुः।
शकारवतो ग्रहणं किमर्थम्()? "दभाभ्यां नुः" (द।उ।य१।१४३) दानुः, भानुरित्यत्र मा भूत्()। "चिक्षियतुः, चिक्षियुः" इति। त्रयाणामपि क्षिधातूनामन्यतमस्य रूपम्()। "नियौ, नियः, "लुवौ, लुवः" इति। अत्र "क्विदन्ता धातूत्वं न जहति" (व्या।प।१३२) इति धातुत्वं वेदितव्यम्()। तत्र नयतेः "सत्यूद्विष"
३।२।६१ इत्यादिना क्विप्()। लुनातेस्तु "अन्येभ्योऽपि दृश्यते"
३।२।१७८ इत्यनेन।
"इयङुवङ्भ्याम्()" इत्यादि। गुणस्यावकाशः--चेतव्यम्(), स्तोतव्यमित्यादि, इयङ्वङोः--चिक्षियतुः, चिक्षियुः, लुलुवतुः, लुलुवुरिति; इहोभयं प्राप्नोति--चयनम्(), लवनमिति। विप्रतिषेधेन गुण एव भवति। वृद्धेरवकाशः--सखायौ, सखायः, गावौ, गाव इति; इयङुवङोः स एव; इहोभयं प्राप्नोति--चायकः, लावक इति। वृद्धिरेव भवति विप्रतिषेधेन।
"इयङुवङ्प्रकरणे" इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्()--"बहुलं छन्दसि"
६।४।७५ इत्यादेः सूत्राद्बहुलग्रहणमनुवर्तते। तेन तन्वदीनां छन्दसि विकल्पेनेयङुवङौ भविष्यतः। "तन्वम्()" इति। यत्रोवङ् नास्ति, तत्रामि परपूर्वत्वमपि नास्ति; बहुलवचनादेव। "विध्वम्(), विषुवम्()" इति। सूधातोः क्विप्(); "उपसर्गा सुनोति"
८।३।६५ इत्यादिना षत्वम्()। "स्वर्गः, सुवर्गः" इति। "सु" इत्येतस्मादर्गशब्दे परत उवङादेशः। योगश्चायं यणादेशापवादः॥
बाल-मनोरमा
अचिश्नुधातुभ्रुवांय्वोरियङुवङौ २६९, ६।४।७७
कुमारी-औ इति स्थिते "इको यणची"ति यणपवादमियङमाशङ्कितुमाह--अचि श्नु। इस्च उश्च यू, तयोः--य्वोः=इवर्णोवर्णयोरित्यर्थः। श्नुश्च धातुस्च भ्रूश्चेति द्वन्द्वः। प्रत्ययग्रहणपरिभाषया श्नुप्रत्ययान्तं विवक्षितं। "य्वो"रिति धातोरेव विशेषणं, ततस्तदन्तविधिः। श्नुभ्रुवोस्तु नित्यमुवर्णान्तत्वान्न तद्विशेषणम्। इवर्णान्तत्वं तु असंभवान्न तद्विशेषणम्। "संभवव्यभिचाराभ्यां स्याद्विशेषणमर्थव"दिति न्यायात्। "अङ्गस्ये"त्यधिकृतं ततश्च प्रत्यये परत इति लभ्यते। अचीति तद्विशेषणं। तदादिविधिः। तदाह--श्नुप्रत्ययान्तस्येत्यादिना।
य्वोः किम्? चक्रतुः। अचीति किम्?। आप्नुयात्। इयङ् उवङित्यनयोरनेकाल्त्वात्सर्वादेशत्वमाशङ्क्य आह--ङिच्चेत्यन्तादेश इति। नच "श्नुधातुभ्रुवामिवर्णोवर्णयोः" इत्येवं व्याख्यायतां ङित्त्वं च न क्रियतामिति वाच्यम्, एवं सति "क्षिपती"त्यादावतिव्याप्तेः। नचाऽजादिप्रत्यये परत इत्यनेन तन्निरासः शङ्क्यः, अङ्गाक्षिप्तप्रत्ययपरकत्वस्याङ्गविशेषणताया एवोचितत्वादित्यलम्। आन्तरतम्यादिति। तालुस्थानकस्य इवर्णस्य तादृश एव इयङ्। ओष्ठस्थानकस्य उवर्णस्य तादृश एवोवङित्यर्थः। इतीयङि प्राप्ते इति। "कुमारी औ इत्यादा"विति शेषः।
तत्त्व-बोधिनी
अचि श्रुधातुभ्रुवां य्वोरिययङुवङौ २३१, ६।४।७७
अचि श्रु। "भ्रमेश्च डूः"इति डूप्रत्ययान्तत्वाद्भ्रूशब्दस्य धातोः पृथग्ग्रहणम्।
अन्ये त्वाहुः--"गमः क्कौ"इत्यत्र "ऊङ् च गमादीनामितिवक्तव्य"मिति वार्तिकादनुनासिकलोपे ऊङादेशे च कृते निष्पन्नोऽयं भ्रूशब्दः। तथा च धातुग्रहणेनैव सिद्धे भ्रूग्रहणं निरर्थकमिति।
"इण"इति वक्तव्ये "य्वो"रिति गुरुनिर्देश"इण्प्रत्याहारः परेणैव णकारेण गृह्रते"इति ज्ञापनार्थः। इह "य्वो"रिति धातोरेव विशेषणं, न तु श्रुभ्रुरव्यभिचारादित्याशयेनाह--इवर्णान्तधातेरिति। "श्रुधातुभ्रुवामिवर्णोवर्णयों"रिति व्याख्याने तु इयङुवोर्ङित्त्वं व्यर्थं स्याद्वैधिकरण्यं च सर्वादेशत्वनिवृत्तिसंभवादि चेन्न; श्रभ्रुवोरपि निर्दि श्यमानत्वेन सर्वादेशत्वप्रसङ्गात्। "इ उ इत्यष्टादशानां संज्ञे त्युक्तत्वाद्यथासङ्ख्यमिहन न प्रवर्तते, इत्याह--आन्तरतम्यादिति। स्थानत इति भावः। य्वेः किम्()। चक्रतुः। चक्रुः। अचीति किम्()। आप्तुयात्। जुहुयात्।