प्रथमावृत्तिः
सूत्रम्॥
उश्च॥ १।२।१२
पदच्छेदः॥
उः ५।१ च ० लिङ्सिचौ १।२ ११ आत्मनेपदेषु ७।३ ११ झल् १।१ ९ कित् १।१ ५
अर्थः॥
ऋवर्णान्तात् धातोः परौ झलादी लिङ्सिचौ, आत्मनेपदविषये किद्वत् भवतः।
उदाहरणम्॥
लिङ् - कृषीष्ट, हृषीष्ट। सिच् - अकृत, अहृत।
काशिका-वृत्तिः
उश् च १।२।१२
ऋवर्णान्ताद् धातोः परौ लिङ्सिचौ आत्मनेपदेशु झलादी कितौ भवतः। कृषीष्ट। हृषीष्ट। सिचः खल्वपि अकृत। अहृत। झलित्येव। वरिषीष्ट। अवरिष्ट। वृऋतो वा
७।२।३८ अवरीष्ट।
लघु-सिद्धान्त-कौमुदी
उश्च ५४६, १।२।१२
ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। भृषीष्ट। भृषीयास्ताम्। अभार्षीत्॥
न्यासः
उश्च। , १।२।१२
लिङसिचाविहानुवर्तमानौ धातुं सन्निधापयतः, तत एव तयोर्विधानात्। न च ऋकारेण विशिष्यते। "येन विधिस्तदन्तस्य "
१।१।७१ इति ऋकारेण तदन्तविधिर्विज्ञायत इत्याह--"ऋकारान्ताद्धातोः" इत्यादि।
अथ "ऋ गतौ" (धा।पा।
१०९८) इत्यस्य धातोग्र्रहणं कस्मान्न भवति? शैलीहेयमाचार्यस्य यत्र यस्य धातोग्र्रहणमिच्छति तत्र यस्य श्तिपा निर्देशः करोति, यथा-- "अर्तिपिपत्र्योश्च"
७।४।७७ "सर्तिशास्त्यर्तिभ्यश्च"
३।१।५६ इति, न चेह श्तिपा निर्देशः कृतः; तस्मादृवर्ण्सयैवेदं ग्रहणम्, न धातोः। "अकृत" इति। "ह्यस्वादङ्गात्
८।२।२७ इति सिचो लोपः। "वरिषीष्ट" इति। वृङो वृञो वैकस्य रूपम्। "लिङसिचोरात्मनेपदेषु"
७।२।४२ इतीट्।
बाल-मनोरमा
उश्च २०५, १।२।१२
आशीर्लिङि भृषीष्टेत्यत्र गुणे प्राप्ते-- उश्च। "लिङ्गिचावात्मनेपदेषु" इति सूत्रमनुवर्तते। "इको झ"लित्यतो झलिति च। तदाह--ऋवर्णादिति। भृषीष्टेति। कित्त्वान्न गुणः। अभार्षीदिति। परस्मैपदे सिचि वृद्धौ रपरत्वम्।
तत्त्व-बोधिनी
उश्च १७७, १।२।१२
उश्च। "इको झ"लित्यतो झल्ग्रहणं , "लिङ्सिचौ" इति पूर्वसूत्रं चानुवर्तते। तदाह-- ऋवर्णादित्यादि। अभार्षीदिति। "सिचि वृद्धि"रिति वृद्धिः।