प्रथमावृत्तिः
सूत्रम्॥
शि सर्वनामस्थानम्॥ १।१।४१
पदच्छेदः॥
शि १।१ सर्वनामस्थानम् १।१ ४२
अर्थः॥
शि {जश्शसोः शि (७।१।२०)} इत्यनेन यः शि-आदेशः, तस्य सर्वनामसंज्ञा भवति।
उदाहरणम्॥
कुण्डानि, वनानि। दधीनि, मधूनि। त्रपूणि जतूनि।
काशिका-वृत्तिः
शि सर्वनामस्थानम् १।१।४२
शि इत्येतत् सर्वनामस्थानसंज्ञं भवति।
किम् इदं शि इति? जश्शसोः षिः
७।१।२० इति शिः आदेशः। कुण्डानि तिष्ठन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूणि। जतूनि। सर्वनामस्थानप्रदेशाः सर्वनामस्थाने च असम्बुद्धौ
६।४।८ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
शि सर्वनामस्थानम् २३९, १।१।४१
शि इत्येतदुक्तसंज्ञं स्यात्॥
न्यासः
शि सर्वनामस्थानम्। , १।१।४१
"कुण्डानि" इत्यादि। "जश्शसोः शिः"
७।१।२० इति शिः, तस्य सर्वनामस्थान
त्वे सति "नंपुसकस्य" स्थानम्" इति। पूर्वाचार्यैरेवेयं प्रयोजनमन्तरेणापि महती
संज्ञा प्रणिता। तस्या इह यत् समाश्रयणम् तत् तत्कृतस्य शब्दानुशासनस्य दोषवत्त्वसूचनार्थम्। तत् पुनः स्वशास्त्रस्य पुनरुक्ततादोषपरिहारार्थम्। यदि हि तद्दोषवद्भवत्येवमस्य प्रणयनं युज्यते, नान्यथा।
बाल-मनोरमा
शि सर्वनामस्थानम् ३११, १।१।४१
शिसर्वनामस्थानम्। उक्तसंज्ञामिति। सर्वनामस्थानसंज्ञकमित्यर्थः। अनपुंसकस्येति पर्युदासाच्छीत्यस्य सर्वनामस्थानत्वेऽप्राप्ते वचनम्।
तत्त्व-बोधिनी
शि सर्वनामस्थानम् २७३, १।१।४१
शि सर्वनामस्थानम्। महासंज्ञाकरणं पूर्वाचार्यानुरोधेन।