नपुंसकादङ्गादुत्तरयोः जश्शसोः शि इत्ययम् आदेशो भवन्ति। कुण्डानि तिष्थन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूणि। जतूनि। जसा सहचरितस्य शसो ग्रहणादिह न भवति, कुण्डशो ददाति, वन्शः प्रविशन्ति इति।
जसीत्यत्रेकार उच्चारणार्थः। "कुण्डानि" इति। "नपुंसकस्य झलचः"
७।१।७२ इति नुम्(), "सर्वनामस्थाने च"
६।४।८ इति दीर्घ-।
अथेह कस्मान्न भवति--कुण्डं कुण्डं ददाति, "संख्यैकवचनाच्च वीप्सायाम्()"
५।४।४३ इति शस्(),
कुणाडशो ददाति? इत्याह--"जसा साहचर्यात्()" इत्यादि। एतच्चोद्यपरिहारवचनं यदार्थप्रकरणादेर्वृत्तो कुण्डादिशब्द एकवचनो भवति तदा वेदितव्यम्(), न त्वन्यदा। शस्विधौ हि वृत्तिस्थैकार्थताऽऽश्रीयते, न वाक्यस्था। अर्थप्रकरणादिरहितः कुण्डादिशब्दो वृत्तौ निवृत्तायां विभक्तावेकार्थो न भवतीति शसा न भवितव्यम्()।
कस्मात्? पुनः कुण्डादिशब्दो वृत्तौ निवृत्तायं विभक्तावेकार्थो न भवतीति शसा न भवितव्यम्()।
कस्मात्? पुनः कुण्डादिशब्दो वृत्तावेकार्थो न भवति? जातिशब्दत्वात्()। जातिशब्दा हि नैकसयामेव जात्याधारभूतायां व्यक्तौ वत्र्तन्ते।
किं तर्हि? अनेकस्यामपि।
एवञ्च यत्तत्र शस्विधौ प्रत्युदाहरणमुपन्यस्तम्()--"संख्यैकवचनादिति किम्()? घटं घटं ददाति", तदुपपद्यते। यद्यर्थप्रकरणादिरहितो जातिशब्दो वृत्तावेकार्थो न भवति, तदा न भवितव्यमेव शसा॥