पूर्वम्: ८।४।४७
अनन्तरम्: ८।४।४९
 
सूत्रम्
शरोऽचि॥ ८।४।४८
काशिका-वृत्तिः
शरो ऽचि ८।४।४९

न इति वर्सते। शरो ऽचि परतः न द्वे भवतः। अचो रहाभ्यां द्वे ८।४।४५ इति प्राप्तिः प्रतिषिध्यते। कर्षति। वर्षति। आकर्षः। अक्षदर्शः। अचि इति किम्? दर्श्श्यते।
लघु-सिद्धान्त-कौमुदी
शरोऽचि २७१, ८।४।४८

अचि परे शरो न द्वे स्तः। चतुर्षु॥
न्यासः
शरोऽचि। , ८।४।४८

"कर्वति" इति। "कृष विलेखने" (धा।पा।९९०)। "वर्वति" इति। "पृषु वृषु मृषु सेचने" (धा।पा।७०५-७०७)। "आदर्शः" इति। "दृशिर्? प्रेक्षणे" (धा।पा।९८८)। अधिकरणे धञ्()। "दर्शः" [नास्ति--काशिकायाम्()] इति। अत एव करणे धञ्()॥
बाल-मनोरमा
शरोऽचि , ८।४।४८

शरोऽचि। "अचो रहाभ्या"मित्यतो "द्वे" इति, "नादिन्याक्रोशे" इत्यतो नेति चानुवर्तते। तदाह अचि पर इत्यादिना। तथाच "चतुर्षु" इत्येकषकारमेव रूपम्। नच सत्यपि द्वित्वे "झरो झरि सवर्णे" इति लोपादेव एतषकाररूपसिद्धेरिदं व्यर्थमिति वाच्यं, लोपस्य वैकल्पिकत्वादिति भावः। प्रियाश्चत्वारो यस्येति बहुव्रीहौ प्रियचतुर्शब्दो विशेष्यनिघ्न एकद्विबहुवचनान्तः। तस्य सौ रूपमाह--प्रियचत्वा इति। प्रियचतुर् स् इति स्थिते "चतुरनडुहोः" इत्युकारादाम्। तस्याङ्गत्वेन तदन्तेऽपि प्रवृत्तेः। तत उकारस्य यण्। हल्ङ्यादिलोपश्चेति भावः। हे प्रियचत्व इति। "अम् संबुद्धौ" इत्यमिति भावः। प्रयिचत्वाराविति। सुटि सर्वनामस्थानत्वादाम्। प्रियचत्वारः। प्रियचत्वारम्, प्रयिचत्वारौ। शसादावाम् न। प्रियचतुरः। प्रियचतुरा प्रियचतुभ्र्याम् प्रियचतुर्भिः। प्रियचतुरे। प्रयिचतुरः २। प्रियचतुरोः। आमि "षट्चतुभ्र्यश्चे"ति नुटमाशङ्क्याह--गौणत्वे त्विति। "षट्चतुभ्र्यश्चे"ति बहुवचननिर्देशात्तदर्थप्राधान्य एव नुडिति भावः। प्रियचतुरि। प्रयिचतुर्षु। परमचतुर्ण्णामिति। कर्मधारयः। आङ्गत्वात्तदन्तादपि नुटिति भावः। इति रान्ता#ः। अथ लकारान्ताः। कमलमिति। कमलं=पद्मम्। कमला=लक्ष्मीः। कमलमाचष्टे इत्यर्थे कमलशब्दात्, कमलामाचष्टे इत्यर्थे कमलाशब्दा"त्तत्करोति तदाचष्टे" इति णिचि "सनाद्यन्ताः" इति धातुत्वात्तदवयवस्य सुपो लुकि "णाविष्ठत्प्रातिपदिकस्ये"ति इष्ठवत्त्वाट्टिलोपे कमव्-इ इत्यतः कत्र्तरि क्विपि णेरनिटीति णिलोपे अपृक्तलोपे च कमलिति रूपम्। ततः सोर्हल्ङ्यादिलोपे कमलिति रूपम्। कमलाविति। औजसादिषु न कोऽपि विकार इति भावः। कमलं कमलौ कमलः। कमला कमल्भ्यां कमल्भिः। कमले। कमल्भ्यः। कमलः। कमलः कमलोः कमलाम्। सुपि विशेषमाह--षत्वं कमल्ष्विति। लकारस्य इण्त्वादिति भावः। तोयमाचष्टे तोयित्यादियकारान्तास्तु न सन्त्येव, क्विपि "लोपो व्योः इति यलोपस्य दुर्वारत्वा। णिलोपस्य स्थानिवत्त्वं तु न भवति, यलोपे तन्निषेधात्। वस्तुतस्तु "न पदान्ता हलो यणः सन्ती"ति लण्सूत्रस्थभाष्यादनभिधानमेवंजातीयकानामिति हरदत्तः। "भोभगो" इति सूत्रे "वृक्षव्करोती"ति भाष्यं तु एकदेश्युक्तिरिति तदाशय इत्यलम्। इति लान्ताः।

तत्त्व-बोधिनी
शरोऽचि ३००, ८।४।४८

शरोऽचि। "अचो रहाम्भा"मित्यतो "द्वे"इति, "नादिन्याक्रोशे"इत्यतो "ने"ति चानुवर्तत इत्याह--न द्वे स्त इति। नन्वस्तु द्वित्वमेकस्य, "झरो झरि सवर्णे"इति लोपे सिद्धमिष्टम्, मैवम्, लोपस्य वैकल्पिकत्वेन पक्षे द्वयोः श्रवणप्रसङ्गात्। प्रियाः चत्वारश्चत्वारि वा यस्य स "प्रियचत्वाः"। आङ्गत्वात्तदन्तस्यापि "चतुरनडुहो"रित्याम्। "हे प्रियचत्व"इत्यत्र तु "अम्सबुद्धौ"इत्यम्। इति रान्ताः। कमलमिति।"कमला श्रीर्हरिप्रिये"त्यमरः। कमलमिति। "तत्करोति तदाचष्टे"इति णिचीष्ठवद्भावाट्टिलोपः। णिजन्तात्क्विपि, "णेरनिटी"ति णिलोपः। एवं सलिलमाचक्षाणः--"सलिलौ" "सलिल"इत्यादि बोध्यम्। नन्वेवं तोयमाचक्षाणस्तय् तोयौ तोय इति यान्ता अपि सुसाधाः। न च "वेरपृक्तलोपाद्वलि लोपः पूर्वविप्रतिषेधेन"ति यलोपः शङ्क्यः, "लोपो व्योर्वली"ति लोपे कर्तव्ये णिलोपस्य टिलोपस्या वा स्थानिवद्भावेन यकारस्य वल्परत्वाऽभावादिति चेन्मैवम्, "न पदान्ते"ति सूत्रेण यलोपे स्थानिवद्भावनिषेधात्। तस्माल्लोपो व्योर्वलीति यलोपः स्यादेवेति यान्ता नोक्ताः। इति लान्ताः। पदान्त इति। प्राचा तु "झलि"त्यप्युक्तं, तन्निष्फलत्वादुपेक्ष्यम्।