पूर्वम्: ८।४।३०
अनन्तरम्: ८।४।३२
 
सूत्रम्
इजादेः सनुमः॥ ८।४।३१
काशिका-वृत्तिः
इजादेः सनुमः ८।४।३२

हलः इति वर्तते, तेन इह सामर्थ्यात् तदन्तविधिः। इजादेः सनुमः हलन्ताद् धातोः विहितो यः कृत्, तत्स्थसय् नकारस्य उपसर्गस्थान् निमित्तातुत्तरस्य णकारो भवति। प्रेङ्खणम्। प्रेङ्ग्खणम्। प्रेङ्गणम्। परेङ्गणम्। प्रोम्भणम्। परोम्भणम्। सिद्धे सत्यारम्भो नियमार्थः, इजादेरेव सनुमः, नान्यस्मातिति। प्रमङ्गनम्। परिमङ्गनम्। हलः इत्यधिकाराद् ण्यन्ते नित्यं विध्यर्थम् एतन् न भवति।
न्यासः
इजादेः सनुमः। , ८।४।३१

"हल इत्यनुवत्र्तते" इति। तदनुवृत्ते। प्रयोजनं वक्ष्यति। ननु च पूर्वसूत्रे हल्ग्रहणमादेर्विशेष म्(), अन्तस्य विशेषणेन चेहार्थः? इत्याह--"तेन" इत्यादि। न हीजादिर्धातुः कश्चिद्धलादर्विद्यते, सामथ्र्यात्()। तेन हल्ग्रहणानुवृत्तेन तदन्तविधिर्भवति। "सनुमः" इति। सानुस्वादादित्यर्थः। कुत एतत्()? नुम्ग्रहणस्यानुस्थारीपलक्षणार्थत्वात्()। कस्मात्? पुनरेवं व्याख्यायते? नियमार्थत्वादस्य योगस्य। एवञ्चास्य नियमार्थता भवति यदि नुम्ग्रहणमनुस्वारोपलक्षणार्थं भवति, नान्यथा। असति विधेये नियमार्थता विज्ञायते। यदि नुम्ग्रहणं मुम एव प्रतिपादकं स्यात्(), नानुस्वारोपलक्षणार्थ स्यात्(), नानुस्वारोपलक्षणार्थं स्यात्()। एवञ्च सति यत्र "कृत्यचः" ८।४।२८ इत्यनेन न सिध्यति, तत्र स्यादेवास्य विधेयत्वम्()। क्वैतेन न सिध्यतीति? "इवि व्याप्तौ" (धा।पा।५८७), प्रेध्वनमिति। अत्र यद्यपि च "अट्कुष्वनुम्व्यवायेऽपि" ८।४।२ इत्यनुवत्र्तते, तथापि तेनात्र न प्राप्नोति; नुम्ग्रहणास्यानुस्वारोपलक्षणार्थत्वात्(), इह चानुस्वाराभावात्()। तस्मान्नियमार्थतामस्येच्छता नुम्ग्रहणस्यानुस्वारोपलक्षणार्थत्वं वेदितष्यम्()। एवं प्रेङ्खणमित्यादौ "कृत्यचः" ८।४।२८ इति सिद्धे नियमार्थमेतत्सम्पद्यते। अनुस्वारोपलणार्थता च नुमः "इजादेः सनुमः" इति महतः सूत्रसय प्रणयनादवसीयते। यदि हि नुम्ग्रहणं नुम एव प्रतिपादकं स्यान्नानुस्वारोपलक्षणार्थम्(), तदानीं "इवेः" इत्येवं ब्राऊयात्(); न हीवेरन्यो धातुरिवादिर्हलन्तः सनुम्? सम्भवति। इखिप्रभृतयः सम्भवन्तीति चेत्()? न; अनुस्वारे कृते नुमोऽभावात्()। "प्रेङखणम्()" इति। "अख वख" [नख--प्रांउ।पाठः] इत्यादौ कवर्गान्त इखिः पठ()ते; तस्येदित्त्वान्नुम्? ७।१।५८, "नश्चापदान्तस्य झलि" ८।३।२४ इत्यनुस्वारः, "अनुस्थारस्य ययि" ८।४।५७ इति ["इति--नास्ति--प्रांउ।पाठे] परसवर्णत्वम्(), तस्यासिद्धत्वादनुस्वार एवायम्()। "प्रोम्भणम्()" इति। "उभ उन्भ पूरणे" (धा।पा।१३१९,१३२०) पूर्ववदनुस्वारः। ननु च "कृत्यचः" ८।४।२८ इत्येवं सिद्धमत्र, किमर्थमिदमारभ्यते? इत्याह--"सिद्धे" इत्यादि। "प्रमङ्गनम्()" इति। तत्रैव गत्यर्थवर्गे मगिः पठ()ते, क्वचित्? "प्रमङ्कनम्()" इति पाठः। स "मकि मण्डने" (धा।पा।८९) इत्यस्य द्रष्टव्यः। ननु चासति विधेये नियमार्थता भवति, इह च णेर्विभाषायां प्राप्तायां नित्यंणत्वं विधेयमस्ति--"निधिनियमसम्भवे विधिरेव ज्यायान्()" (व्या।प।१३०) इति, ततो ण्यन्तान्नित्यं विध्यर्थमेतत्? कस्मान्न भवति? इत्याह--"हल इत्यभिकारात्()" इत्यादि। पूर्वसूत्राद्धल इत्यनुवत्र्तते, तेन च तदन्तविधिरित्युक्तम्(), न हि हलन्तो भवति ण्यन्तो धातुः। किं तर्हि? सजन्तः। न च हलन्तादुच्यमानमजन्ताद्भवितुमर्हति, तस्मान्नेदे ण्यन्ते नित्यं विध्यर्थ भवति। ननु च णिलोपे कृते ण्यन्तोऽपि हलन्तो भवति, ततश्च "हलः" इत्यधिकारेऽपि स्यादेव विध्यर्थता? नैतदस्ति; विहितवशेषणाश्रयणात्()। एतच्चोद्यनिरासायाह--"इजादेः समुमो हलन्ता द्धातोर्यो विहितः कृत्()" इति। विहितविशेषणमाश्रितम्()॥
बाल-मनोरमा
इजादेः सनुमः ६५९, ८।४।३१

इजादेः। "णेर्विभाषा" इति निवृत्तम्। "कृत्यच" इत्यनुवर्तते, "हलश्चेजुपधा"दित्यतो हल इति च। प्रकृतिविशेषणत्वात्तदन्तविधिः। तथा च सनुमो हलन्तादिजुपदात् परस्य कृन्नस्य णः स्यादिति लभ्यते। एवं च प्रेङ्खणीयमित्यादौ "कृत्यचः" इत्येव सिद्धेरिदं नियमार्थमित्याह-- सनुमश्चेदिति। कृत्स्थस्यैवेत्यनन्तरं "णत्व"मिति शेषः। प्रेङ्खणीयमिति। इखधातुरिदित्त्वात्सनुम्। "इवि प्रीणने" इति धातोर्ल्युटि तस्याऽनादेशे प्रेन्वनमित्यत्रापि णत्वं स्यात्, सनुमोऽस्य इजादित्वाद्धलन्तत्वाच्चेत्यत आह-- नुम्()ग्रहणमित्यादि। अनुस्वारश्च सर्व एव गृह्रते, न तु नुम्()स्थानिक एव, अविशेषात्। तदाह-- इह त्विति। प्रोम्भणमिति। इह उम्भधातुः स्वाभाविकानुस्वारवानेव, न तु नुम्()स्थानिकानुस्वारवानिति भावः।

तत्त्व-बोधिनी
इजादेः सनुमः ५४९, ८।४।३१

इजादेः सनुमः। "कृत्यचः" इत्येव सिद्धे नियमार्थमिदमित्याह-- सनुमश्चेदित्यादि। इह "हल" इत्यनुवृत्तं तदन्तपरं न तु तदादिपरम्। इजादेर्हलादित्वाऽसंभवात्। तदाह--- हलन्तादिति। विहित इति। यदि तु विहितविशेषणं न व्याख्यायेत तर्हि नियमार्थता न लभ्येत्, णिजन्ताद्विहितस्यापि कृतस्थनकारस्य णिलोपे कृते हलन्तात्परत्वेन "णेर्विभाषे"ति विकल्पं बाधितुं विधेः संभवात्। इष्टापत्तौ तु अणिजन्तप्रकृतिकाऽनीयप्र्रत्ययान्तं प्रेङ्खणीयमित्याद्युदाहरणं न स्यात्, किं तु णिजन्तप्रकृतिकमेवोदाहरणं स्यात्। किं अस्य सूत्रस्य नियमार्थत्वाऽभावात्प्रमङ्गनीयमित्यत्र "कृत्यचः" इत्यनेन णत्वं स्यात्, अतो विहितविशेषणमवश्यं स्वीकार्यमिति दिक्। नन्वेवमपि नियमार्थता न युज्यते। प्रेन्वनमित्यत्र विध्यर्थत्वसंभवात्, नुम्नकारेण व्यवधानात् "कृत्यचः" इत्यस्याऽप्राप्तेरित्यत आह---नुम्ग्रहणमिति। "अटुकुप्वाङि"ति सूत्र इवाऽत्रापि नुमाऽनुस्वारो लक्ष्यत एति विध्यर्थत्वमिह न शङ्कनीयमिति भावः। प्रोम्भणमिति। उम्भ पूरण इत्यस्माद्भावे ल्युट्। "कृत्यचःर" इत्यतोऽनुवर्तनादाह--