पूर्वम्: ८।४।२१
अनन्तरम्: ८।४।२३
 
सूत्रम्
वमोर्वा॥ ८।४।२२
काशिका-वृत्तिः
वमोर् वा ८।४।२३

हन्तेः इति वर्तते। वकारमकारायोः परतः हन्तिनकारस्य उपसर्गस्थान् निमित्तादुत्तरस्य वा णकारादेशो भवति। प्रहण्वः, प्रहन्वः। परिहण्वः, परिहन्वः। प्रहण्मः, प्रहन्मः। परिहण्मः, परिहन्मः।
न्यासः
वमोर्वा। , ८।४।२२

पूर्वेण नित्ये प्राप्ते विकल्पार्थ वचनम्()। वाग्रहणं पूर्वविधीनां नित्यत्वज्ञापनार्थम्(); अन्यथा हि योगारम्भसामथ्र्यादेवास्य विधेर्नित्यत्वं [विधिः--प्रांउ।पाठः; कांउ।पाठश्च] विज्ञायेत, पूर्वेषां तु विधीनां "शेषे विभाषा" ८।४।१८ इत्यतो विभाषाग्रहणस्यानुवृत्तेः पाक्षिकत्वं स्यात्()। इह तु वाग्रहणे द्वयोर्विभाषयोर्मध्ये ये विधयस्त एवह नित्या इति तेषां नित्यत्वं विज्ञायते॥
बाल-मनोरमा
वमोर्वा २६०, ८।४।२२

वमोर्वा। "उपसर्गादसमासेऽपी"त्यतः उपसर्गादित्यनुवर्तते। "रषाभ्यां नो णः" इति सूत्रमनुवर्तते। "हन्तेरत्पूर्वस्ये"त्यतो "हन्ते"रिति। तदाह--- उपसर्गस्यान्निमित्तादिति। णलि जहानेति स्तिते आह--हो हन्तेरिति। "अभ्यासाच्चे"त्यपेक्षयाऽस्यान्तरङ्गत्वेन न्याय्यत्वादिति भावः। जघ्नतुरिति। "गमहने"त्युपधालोपे "हो हन्ते"रिति कुत्वम्। थलि भारद्वाजनियमादिड्विकल्पे जहनिथ जहन् थ, इति स्थिते ञ्णित्प्रत्ययपरत्वाऽभावान्नकारपरत्वाऽभावाच्च "हो हन्ते"रिति कुत्वाऽप्राप्तौ।

तत्त्व-बोधिनी
वमोर्वा २२९, ८।४।२२

जघान जघ्नतुरिति। यद्यप्यत्र "अभ्यासाच्चे"त्यस्यापि प्रवृत्तिरस्ति तत्राप्यन्तरङ्गत्वात् "हो हन्ते"रित्युपन्यस्तम्।