सूत्रम्
भीरोः स्थानम्॥ ८।३।८१
काशिका-वृत्तिः
भीरोः स्थानम् ८।३।८१
स्थानसकारस्य भीरोः उत्तरस्य मूर्धन्यादेशो भवति। भीरुष्ठानम्। समासे इत्येव, भीरोः स्थानं पश्य।
न्यासः
भीरोः स्थानम्?। , ८।३।८१
"भीरुष्ठानम्()" इति। अधिकरणसाधनन स्थानशब्देन षष्ठीसमासः।
पृथग्योगकरण यथासंख्यभावनिवृत्त्यर्थम्()। एकयोगे हि निमित्तनिमित्तनोः माम्येऽपि सत्यस्वरितत्वाद्यथासंक्यभावः स्यात्()। अथ तदर्थ स्वरितत्वं प्रतिज्ञायते; ["प्रतिज्ञायेते"--कांउ।पाठः] ततो योगविभागकरणं वैचित्र्यार्थम्()॥
बाल-मनोरमा
भीरोः स्थानम् १००५, ८।३।८१
तत्त्व-बोधिनी
भीरोः स्थानम् ८५३, ८।३।८१
भीरोः स्थानमिति। विसर्जनीयव्यवधानेऽपि षत्वप्राप्तिरस्ति।