पूर्वम्: ८।३।७९
अनन्तरम्: ८।३।८१
 
सूत्रम्
समासेऽङ्गुलेः सङ्गः॥ ८।३।८०
काशिका-वृत्तिः
समासे ऽङ्गुलेः सङ्गः ८।३।८०

सङ्गसकारस्य अङ्गुलेः उत्तरस्य मूर्धन्य आदेशो भवति समासे। अङ्गुलेः सङ्गः अङ्गुलिषङ्गः। अङ्गुलिषङ्गा यवागूः। अङ्गुलिषङ्गो गाः सादयति। समासे इति किम्? अङ्गुलेः सङ्गं पश्य।
न्यासः
समासाङ्गुलेः सङ्गः , ८।३।८०

सङ्ग इति षष्ठ्याः स्थाने सुब्ब्यत्ययेन प्रथमा। एवमुत्तरत्रापि वेदितव्यम्()। "सात्पदाद्योः" ८।३।११३ इति प्रतिषेधे प्राप्तेऽन्यारम्भः। एवमुत्तरल्यापि। सञ्जनं सङ्ग इति भावे धञ्(), अङ्गुलिषु सङ्गः संश्लेषोऽस्या अस्तीति बहुव्रीहिः॥
बाल-मनोरमा
समासेऽङ्गुलेः सङ्गः १००४, ८।३।८०

समासेऽङ्गुलेः सङ्गः।