पूर्वम्: ८।३।७२
अनन्तरम्: ८।३।७४
 
सूत्रम्
वेः स्कन्देरनिष्ठायाम्॥ ८।३।७३
काशिका-वृत्तिः
वेः स्कन्देरनिष्ठायाम् ८।३।७३

वेः उपसर्गादुत्तरस्य स्कन्देः सकारस्य मूर्धन्यो वा भवति अनिष्ठायाम्। विष्कन्ता, विस्कन्ता। विष्कन्तुम्, विस्कन्तुम्। विषन्तव्यम्, विस्कन्तव्यम्। अनिष्ठायाम् इति किम्? विस्कन्नः।
न्यासः
वेः स्कन्देरनिष्ठायाम्?। , ८।३।७३

"स्कन्दिर्? गतिशोषणयोः" (धा।पा।९७१)। अधोपदेशः। अतस्तस्याप्राप्त एव मूर्धन्ये वचनम्। "विष्कशः" इति। "अनिदिताम्()" ६।४।२४ इत्यनुनासिकलोपः। "रदाभ्याम्()" ८।२।४२ इत्यादिना नत्वम्()॥
बाल-मनोरमा
वेः स्कन्देरनिष्ठायाम् २३३, ८।३।७३

वेः स्कन्दे। शेषपूरणेन सूत्रं व्याचष्टे-- षत्वं वा स्यादिति। "अपदान्तस्य मूर्धन्यः" इत्यधिकारात् "सिवादीनां वे"त्यतो वेत्यनुवृत्तेश्चेति भावः। वेः परस्य स्कन्देः सस्य षो वा स्यादनिष्ठायां परत इति फलितम्। ननु विस्कन्दतीत्यादौ कुतो न षत्वविकल्प इत्यत आह-- कृत्येवेदमिति। पर्युदासस्य "अब्राहृणमानये"त्यादाविव सजातीयापेक्षत्वादिति भावः। विष्कन्त्ता विस्कन्त्तेति। तृचि रूपे। अषोपदेशत्वादप्राप्ते विभाषेयम्।

तत्त्व-बोधिनी
वेः स्कन्देरनिष्ठायाम् २०४, ८।३।७३

वेः स्क्नदेरनिष्ठायाम्। "सिवादीना"मित्तो "वे"त्यनुवर्तते। अषोपदेशत्वादप्राप्ते विभाषेयम्। माधवादिग्रन्तानुरोधेनाह-- कृत्येवेदमिति। प्राचा तु "विकन्दती"त्युदाह्मतं, तत्र मूलंमृग्यमिति भावः।