पूर्वम्: ८।३।७१
अनन्तरम्: ८।३।७३
 
सूत्रम्
अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु॥ ८।३।७२
काशिका-वृत्तिः
अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ८।३।७२

अनु वि परि अभि नि इत्येतेभ्यः उत्तरस्य स्यन्दतेः अप्राणिषु सकारस्य वा मूर्धन्यादेशो भवति। अनुष्यन्दते। विष्यन्दते। परिष्यन्दते। अभिष्यन्दते तैलम्। निष्यन्दते। अनुस्यन्दते। विस्यन्दते। परिस्यन्दते। अभिस्यन्दते। निस्यन्दते। अप्राणिषु इति किम्। अनुस्यन्दते मत्स्य उदके। प्राण्यप्राणिविषयस्य अपि स्यन्दतेः अयम् विकल्पो भवति, अनुष्यन्देते मत्स्योदके, अनुस्यन्देते। अप्राणिषु इति पर्युदासो ऽयम्, न प्रसज्यप्रतिषेधः।
न्यासः
अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु। , ८।३।७२

"स्यन्दू रुआवणे" ["प्ररुआवणे"--धा।पा।] (धा।पा।७६१)। अस्याषोपदेशत्वादप्राप्त एव षत्व इदं वचनम्()। "अनुस्यन्दते मत्स्य उदके" इति। अथ कथमिदं प्रत्युदाहरणमुपपद्यते? यद्यप्राणिष्विति प्रसज्यप्रतिषेध आश्रीयते; प्राणिषु न भवतीति। प्रसजयप्रतिषेधे हि यत्र प्राणिगन्धोऽस्ति तत्र श्रूर्धन्येन न भवितव्यम्()। इह चास्ति मत्स्यः प्राणीति षत्वं न प्रवत्र्तते। यदि तु पर्युदास आश्रीयते, प्राणिभ्योऽन्यत्र भवतीति तदा प्राण्यप्राणिसमुदायः प्राणिभ्योऽन्यो भवतीति स्यादेवात्र प्राण्यप्राणिसमुदायात्मके विषये मूर्धन्यः॥
बाल-मनोरमा
अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु १८८, ८।३।७२

अनुविपर्यभिनि। एभ्य इति। अनु वि परि अभि नि इत्येतेभ्य इत्यर्थः। सस्येति। "सहेः साडः सः " इत्यतः स इति षष्ठ()न्तस्यानुवृत्तेरिति भावः। षो वा स्यादिति। "अपदान्तस्य मूर्धन्यः" इत्यधिकारादिति भावः। ननु "मत्स्योदके अनुष्यन्देते" इत्यत्र कतं षत्वं, प्राणिकर्तृकत्वस्यापि सत्त्वादित्यत आह-- अप्राणिष्विति पर्युदासादिति। "प्राणिकर्तृकस्य ने"ति न प्रतिषेधः, येनात्र प्राणिकर्तृकत्वस्यापि सत्त्वात् षत्वं न स्यात्। किन्तु प्राणिभिन्नकर्तृकस्येति पर्युदास आश्रीयते। एवं च प्राण्यप्राणिकर्तृकस्यापि अप्राणिकर्तृकत्वाऽनपायादिह षत्वं निर्बाधमिति भावः। कृपू सामर्थ्ये इति। सामथ्र्यं-- कार्यक्षमीभवनम्। ऊदित्त्वाद्वेट्कोऽयम्। ऋदुपधः।

तत्त्व-बोधिनी
अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु १६१, ८।३।७२

अनुविपर्यभिनिभ्यः। एभ्य इति। पञ्चभ्य इत्यर्थः। षत्वं भवत्येवेति। प्राण्यप्राणिकर्तृकस्याऽप्यप्राणिकर्तृकत्वानपायादिति भावः। असमर्थसमास-- वाक्यभेदापत्तिदोषाभ्यां प्रसज्यप्रतिषेधो न सूत्रेऽभिप्रेत इत्याशयेनाह--- प्राणिषु नेत्युक्ताविति। कृपू सामर्थ्ये। भाष्यकृतां व्याख्यामाह-- कृप उ इति।