पूर्वम्: ८।३।५१
अनन्तरम्: ८।३।५३
सूत्रम्
पातौ च बहुलम्॥
८।३।५२
काशिका-वृत्तिः
पातौ च बहुलम्
८।३।५२
पातौ च धातौ परतः पञ्चमीविसर्जनीयस्य बहुलं सकारादेशः भवति छन्दसि विसये। दिवस्पातु। राज्ञस्पातु। न च भवति। परिषदः पातु।
न्यासः
पातौ च बहुलम्?।
, ८।३।५२
"दिवस्पातु" इति। पातेर्लोट्(), तिप्(), "एरुः"
३।४।८६
इत्युत्वम्(), अदादित्वाच्छपो लुक्()॥