पूर्वम्: ८।३।५०
अनन्तरम्: ८।३।५२
 
सूत्रम्
पञ्चम्याः परावध्यर्थे॥ ८।३।५१
काशिका-वृत्तिः
पञ्चम्याः परावध्यर्थे ८।३।५१

छन्दसि इत्येव। पञ्चमीविसर्जनीयस्य सकारादेशो भवति परौ परतः अध्यर्थे। दिवस्परि प्रथमं जज्ञे। अग्निर्हिमवतस्परि। दिवस्परि। नहस्परि। पञ्चमाः इति किम्? अहिरिव भोगैः पर्येति बाहुम्। परौ इति किम्? एभ्यो वा एतल् लोकेभ्यः प्रजापतिः समैरयत्। अध्यथे इति किम्? दिवस्पृथिव्याः पर्येज उद्भृतम्। अत्र परिः सर्वतोभावे, अध्यर्थः उपरिभावः।
न्यासः
पञ्चम्याः परहावध्यर्थे। , ८।३।५१

"अध्यर्थम्()" इति। परेरिदं विशेषणम्()। "हिमवतस्परि" इति। हिमवत उपरीत्यर्थः। पञ्चमी च सुब्ब्यत्ययेन षष्ठ्याः स्थाने वेदितव्या। "दिवः पृथिव्याः" इत्यादि। सर्वतोभावे परिशब्दोऽत्र वर्तते॥