पूर्वम्: ८।३।३
अनन्तरम्: ८।३।५
 
सूत्रम्
अनुनासिकात् परोऽनुस्वारः॥ ८।३।४
काशिका-वृत्तिः
अनुनासिकात् परो ऽनुस्वारः ८।३।४

अन्यशब्दो ऽत्राध्याहर्तव्यः। तदपेक्षया चेयम् अनुनासिकातिति पञ्चमी। अनुनासिकादन्यो यो वर्णः रोः पूर्वः, यस्य अनुनासिकः न कृतः, ततः परो ऽनुस्वार आगमः भवति।
लघु-सिद्धान्त-कौमुदी
अनुनासिकात्परोऽनुस्वारः ९२, ८।३।४

अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः॥
न्यासः
अनुनासिकात्? पोरऽनुस्वारः। , ८।३।४

"अन्यशब्दोऽत्राध्याहार्यः" इति। असति ह्रन्यशब्दस्याध्याहरे परशब्दस्य धुतत्वात्? तदपेक्षयैवानुनासिकादित्येषा पञ्चमी स्यात्(); अन्यस्येह पञ्चमीहेतोरसम्भवात्()। ननु "तस्मादित्युत्तरस्य" (१।१।६७) उपस्थाने उत्तरशब्दापेक्षयैव पञ्चमौ स्यात्()? नैतदस्ति; यदि ह्रल्याः परिभाषाया इहोपस्थानं स्यात्? परग्रहणमनर्थकं स्यात्()। तस्मात्? परशब्दापेक्षयैव पञ्चम्या भवितव्यम्()। सा भवन्ती च "अन्यारादितरत्र्ते" २।३।२९ इत्यादिवा सूत्रेण परशब्दयोगे दिग्बृत्तिगा वा स्यात्(), अन्यार्थवृत्तिना वा? तत्र पूर्वस्मिन्? पक्षे रोः पूर्वस्मादनुनासिकादेव परोऽनुस्वारो विज्ञायेत, न च तस्मात्? पर इष्यते। इतर()स्मस्त्वयमर्थं आपद्येत--अनुनासिकात्? परो भवतदि, अनुनासिकादन्योऽनुस्चारो भवतीत्यर्थः। एवञ्च परग्रहणनर्थकं स्यात्(); न ह्रनुनासिकापेक्षयानुस्वरोऽन्यत्वं व्यभिरति। किञ्च--श्रुतत्वात्? तस्यैवानुनासिकस्यानुस्वारो विज्ञायेत, प्रकृतत्त्वाद्रोर्वाः; अनिष्टञ्चैतत्? अन्यशब्दाध्याहारे तु वस्यानुनासिको न कृतस्यस्मादेव पर इति विज्ञायते। तस्मादन्यशब्दोऽत्राध्याहार्यः। सत्यप्यन्यशब्दाध्याहारे तु यस्यानुनासिको न कृतस्यस्मादेव पर इत#इ विज्ञायते। तस्मादन्यशब्दोऽत्राध्याहार्यः। सत्यप्यन्यशाब्दाध्याहारे यदि परशब्दापेक्षयैव "अनुनासिकात्()" इत्येषा पञ्चमी स्यात्(), स दोषस्तदवस्थ एव स्यादिति मत्वाऽ‌ऽह--"तदपेक्षया चेयम्()" इत्यादि। चशब्दोऽवधारणे। अन्यशब्दापेक्षयैव, न परशभ्दापेक्षयेत्यर्थः। "अनुनासिकदन्यो यः" इत्यनेन तदेवान्यशब्दापेक्षत्वं पञ्चम्या दर्शयति। "रोः पूर्वः" इत्यनेनापि पूर्वग्रहणानुवृत्तिम्()। पूर्वत्वञ्च रुत्वापेक्षम्()। "यस्यानुनासिको न कृतः" इत्यनेनाप्यन्यशब्दाभिधेयमर्थं दर्शयति। "ततः" इत्यनेनापि पूर्वग्रहणस्यार्थादिह पञ्चम्यन्ततया विपरिणाअमम्()। अन्यशब्दस्य चाव्याह्मतस्य पञ्चम्यन्ततां पर इत्यनेनापि। तस्या अन्यशब्दस्य सम्बन्धिन्याः पञ्चम्याः परशब्दापेक्षताम्()। "आगमः" इत्यनेनाप्यादेशाभावम्()। परग्रहणं शक्यमकर्तुम्()। अन्यशब्दस्य पञ्चम्यन्तस्याध्याहरे सति पूर्वग्रहणस्य चार्थात्? प्रथमान्ततया विपरिणामे सत्येवं विज्ञास्यते--अनुनासिकाद्योऽन्यस्तस्मादुत्तरो यो रुस्ततः पूर्वोऽनुस्वारागमो भवति। एवञ्च विज्ञायमानेऽसत्यपि परग्रहयणे संस्कत्र्तेत्यादि सिध्यत्येव, किं परग्रहणेन? एतत्? क्रियते विस्पष्टार्थम्()॥
बाल-मनोरमा
अनुनासिकात्परोऽनुस्वारः १३६, ८।३।४

अनुनासिकात्। "अनुनासिका"दिति ल्यब्लोपे पञ्चमी। "विहाये"ति गम्यम्। पूर्वस्येत्यनुवृत्तं पञ्चम्यन्ततया विपरिणम्यते। पूर्वत्वं च रुत्वकृतरेफापेक्षया। परत्वं च रोर्यः पूर्ववर्णस्तदपेक्षया, तदाह--अनुनासिकं विहायेति। अनुनासिकाऽभावपक्षे इत्यर्थः। आगमत्वं परशब्दलभ्यम्। ततश्च सकारादकारस्य अनुनासिकाऽभावपक्षे अकारात्परोऽनुस्वारागमः। संर्()स्कर्ता। अथ रेफस्य विसर्गविधिं स्मारयति-खरवसानयोरिति।

तत्त्व-बोधिनी
अनुनासिकात्परोऽनुस्वारः ११०, ८।३।४

अनुनासिकात्। ल्यब्लोपे पञ्चमीत्याह--अनुनासिकं विहायेति। अनुनासिकाऽभावपक्षे इत्यर्थः। "पूर्वस्ये"ति प्रकृतस्य तु विभक्तिविपरिणामेन पञ्चम्यन्ततेत्यभिप्रेत्याह-रोः पूर्वस्मादिति। "-संसर्गवद्विप्रयोगस्यापि विशेषावगतिहेतुत्वात् "अवत्सा धेनुरानीयता"मित्यत्रेवसंभावितानुनासिकत्वगुणक एवोपस्थितत्वादाकाङ्क्षितत्वाच्चावधित्वेन सम्बध्यत इत्यभिप्रेत्याह-रोः पूर्वस्मादिति-" इति तु मनोरमायामवतारितं, तत्तु "पूर्वस्ये"त्यनुवर्तनं विभक्तिविपरिणामं चानपेक्ष्य लौकिकन्यायेनैवेष्टं सिध्यतीत्याशयेनोक्तमित्याहुः। अनुस्वारागम इति। आगमत्वं च परशब्देनैव लभ्यते। यथा "पूर्वौ तु ताभ्यामै"जित्यत्र पूर्वशब्देन ऐचोरागमत्वमिति भावः।