अटि परतो रोः पूर्वस्य आकारस्य स्थाने नित्यम् अनुनासिकादेशो भवति। दीर्घादटि समानपादे
८।३।९ इति त्वं वक्ष्यति, ततः पूर्वस्य आतो ऽनुनासिकविकल्पे प्राप्ते नित्यार्थं वचनम्। महाम्̐ असि। महाम्̐ इन्द्रो य ओजसा। देवां अच्छा दीद्यत्। केचिदनुस्वारम् अधीयते स च्छान्दसो व्यत्ययो द्रष्टव्यः।
आतः इति किम्? ये वा वनस्पतींरनु।
अटि इति किम्? भवांश्चरति। भवांश्लाघयति। नित्यग्रहणं विस्पष्टार्थम्।
"देवं अच्छादीव्यत्()" इति। अत्र योऽकारस्तस्मिन्नटि परतो "दूर्घाददि समानपादे" (८।३।
९) इति न कारस्य रुत्वे कृते तस्मात्? पूर्वस्याकारस्यानेनानुनासिकत्वम्(), पूर्ववद्रोर्यकारः, तस्य पूर्वदेव लोपः।
यदि महां इन्द्रो म ओजसेति "केचिदनुस्वारमधीयते" इति वक्तव्यम्(), तर्हि तद्यथासौ सिध्यतीत्यत आह--"सः" इत्यादि। व्यत्ययो बहुलम्()"
३।१।८५ इत्यनेन बोद्धव्यः।
"यो वा वनस्पतीं रनु" इति।
वनस्पतीन्? अन्विति स्थिते "दीर्घादटि समानपादे" (८।३।
९) इति नकारस्य रुत्वे कृते "अनुनासिकात्? परोऽनुस्वारः" (८।३।
४) इतीकारात्? परोऽनुस्वारः "भवांशस्चरति" इति। "नश्छव्यप्रशात्()"
८।३।७ इति नकारस्य रुत्वम्(), तस्य विसर्जनीयस्य सकारः, तस्य "स्तोः श्चुना श्चुः"
८।४।३९ इति श्चुत्वम्()।
नित्यग्रहणं विस्पष्टार्थम्()।["स्पष्टार्थम्()"--प्रांउ।पाठः] पूर्वेणैव विकल्पे सिद्धे सत्यारम्भसामथ्र्यादेव नित्योऽयं विधिर्विज्ञास्यते। ननु चात एवाटि,
अथ वाऽट()एवातः--इत्येव नियमो यथा स्यादित्येवमर्थः सिद्धे सत्यारम्भः स्यात्()? नैतदस्ति; असति हि विधेये नियमो भवति। इह त्वस्ति विदेयम्(),
किं तत्()? नित्योऽनुनासिकः। तस्माद्विधिरेव युक्तः; न नियमः। तथा चोक्तम्()--"विधिनियमसम्भवे विधिरेव व्यायान्()" (व्या।प।१३०) इति।
"आतः" इति तकारोऽसब्देहार्थः।
"आ इत्युच्यमाने सन्देहः स्यात्()--किमर्थं षष्ठ()न्तस्याकारस्य कार्यिनो निर्देशः? उत्तादेशान्तस्य प्थमान्तस्य? इति॥