पूर्वम्: ८।३।११६
अनन्तरम्: ८।३।११८
 
सूत्रम्
सुनोतेः स्यसनोः॥ ८।३।११७
काशिका-वृत्तिः
सनोतेः स्यसनोः ८।३।११५

सुनोतेः सकारस्य मूर्धन्यदेशो न भवति स्ये सनि च परतः। अभिसोष्यति। परिसोष्यति। अभ्यसोष्यत्। पर्यसोष्यत्। सनि किम् उदाहरनम्? अभिसुसूषति। न एतदस्ति प्रयोजनम्, तत्र स्तौतिण्योरेव षण्यभ्यासात् ८।३।७१ इति नियमात् न भविष्यति। इदं तर्हि, अभिसुसूषते? एतदपि न अस्ति, स्थादिष्वभ्यासेन च अभ्यासस्य ८।३।६४ इति नियमात्। इदं तर्हि, अभिसुसूषतेः अप्रत्ययः अभिसुसूः इत्युदाहरनम् इति? अत्र हि सन्षभूतो न भवति इत्यभ्यासात् प्राप्तिरस्ति। स्यसनोः इति किम्? सुषाव।
न्यासः
सोढः। , ८।३।११७

"परिनिविभ्यः" ८।३।७० इति प्राप्ते षत्व आरभ्यते। "सोढः" इति। निष्ठायामपि प्रथमैकवचने कृत एतद्रूपं भवति। एतद्ग्रहणाशङ्कानिरासायाह--"सहिरयम्()" इत्यादि। "सोङ्भूतः"["सोढभूतः"--प्रांउ।पाठः] इति। हकारे ढकारे कृते यद्रूपं भवति तत्प्राप्त इत्यर्थः। ढकारस्तु जश्त्वे न श्रूयते। "परिसोढः" इति। घत्वढत्वष्टुत्वढलोपेषु कृतेषु "सहिवहोरोदवर्णस्य" ६।३।१११ इत्योकारः॥
बाल-मनोरमा
सोढः १९५, ८।३।११७

सोढः। "सोढ" इति सहेरोवत्वसंपन्नस्य षष्ठ()न्तम्। "सहेः साडः सः" इत्यतः स इति षष्ठ()न्तमनुवर्तते। "न रपरे"त्यतो नेति। "मूर्धन्य" इत्यधिकृतम्। तदाह--सोढ्()रूपस्येत्यादिना।

तत्त्व-बोधिनी
सोढः १६८, ८।३।११७

षत्वं नेति। "न रपरे" ति सूत्रान्नेत्यनुवर्तत इति भावः।