पूर्वम्: ८।३।११५
अनन्तरम्: ८।३।११७
 
सूत्रम्
स्तम्भुसिवुसहां चङि॥ ८।३।११६
काशिका-वृत्तिः
स्तम्भुसिवुसहां चङि ८।३।११४

स्तम्भु सिवु सह इत्येतेषां चङि परतः सकारस्य मूर्धन्यादेशो न भवति। स्तन्भेः ८।३।७७ इति, परिनिविभ्यः इति च प्राप्तः मूर्धन्यः प्रतिषिध्यते। स्तम्भु पर्यतस्तम्भत्। अभ्यतस्तम्भत्। सिवु पर्यसीषिवत्। न्यसीषिवत्। सह पर्यसीषहत्। व्यसीषहत्। स्तम्भुसिवुसहां चङ्युपसर्गादिति वक्तव्यम्। उपसर्गाद्या प्राप्तिः तस्याः एव प्रतिषेधो यथा स्यात्, अभ्यासाद्या प्राप्तिः तस्या मा भूतिति। तथा च एव उदाहृतम्।
न्यासः
प्रतिस्तब्धनिस्तब्धौ च। , ८।३।११६

"प्रतिस्तब्धम्(), निस्तब्धम्()" इति। "स्तम्भेः" ८।३।६७ इति प्राप्तस्य षत्वस्यापवादो निपात्यते॥