पूर्वम्: ८।३।९
अनन्तरम्: ८।३।११
 
सूत्रम्
नॄन् पे॥ ८।३।१०
काशिका-वृत्तिः
नृ̄न् पे ८।३।१०

नृ̄नित्येतस्य नकारस्य रुर्भवति पशब्दे परतः। अकारः उच्चारणार्थः। नृ̄म्̐H पाहि, नृ̄ंः पाहि। नृ̄म्̐H प्रीणीहि, नृ̄ंः प्रीणीहि। पे इति किम्? नृ̄न् भोजयति। उभयथा इत्यपि केचिदनुवर्तयन्ति नृ̄न् पाहि इत्यपि यथा स्यात्।
लघु-सिद्धान्त-कौमुदी
नॄन् पे ९७, ८।३।१०

नॄनित्यस्य रुर्वा पे॥
न्यासः
नृन्पे। , ८।३।१०

"नृ()न्?" इति। "सुपां सुलुक्()" ७।१।३९ इत्यादिना षष्ठ()आ लुकं कृत्व निर्देशः। अथ वा-- विभक्तिरेवात्र नोत्पद्यते, अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वात्()। यथा-गवित्ययमाहेत्यादि। "पे" इति पकारमात्रमेव निमित्तत्वेनोपात्तम्(); न समुदायः। अकारस्तूच्चारणार्थः, अन्यथा हि यद्यकारसमुदायो निमित्तत्येनाश्रीयते, तदा नृ()#ः पचतीत्येवमादावेव स्यात्(), न तु नृ()न्? प्रीणीहीत्यादौ। "अटि" इति चेह निवृत्तम्(); निमित्तान्तरो पादानात्()। अथ तस्यैव निमित्तस्यैतद्विशेषणं कस्मान्न विज्ञायते--अटि परतो यः पकार इति? अशक्यमेवं विज्ञातुम्(); इह न स्यात्()--नृ()#ः प्साति, नृ()#ः प्लावयतीति। तस्मादस्य निवृत्तिरङ्ग्रहणस्य युक्ता॥
बाल-मनोरमा
नृ?न्पे १४०, ८।३।१०

नृ()न्पे। "नृ()न्" इति द्वितीयान्तशब्दस्वरूपपरं षष्ठ()न्तम्। षष्ठ्याः सौत्रौ लुक्। नलोपाऽभावोऽपि सौत्र एव। "मतुवसो रु" इत्यतो "रु" इत्यनुवर्तते। "उभयथर्क्ष्वि"त्यतं "उभयथे"त्यनुवर्तते। कदाचिद्भवति कदाचिन्न भवतीत्येवमुभयथा रुः प्रत्येतव्य इत्यर्थः। विकल्प इति यावत्। तदाह-नृ()नित्यस्येत्यादिना। "अलोऽन्त्यस्य"। नृ()न्-पाहीति स्थिते नस्य रुत्वम्। अनुनासिकानुस्वारविकल्पः"।

तत्त्व-बोधिनी
नृ?न्पे ११४, ८।३।१०

नृ()न्पे। पकारोपरि अकार उच्चारणार्थः। तेन "नृ()#ः पुनाती"त्यादि सिद्धम्। "उभयथक्र्षु" इत्यत "उभयथे"नुवृत्तेर्विकल्पः फलित इत्याशयेनाह-रुः स्याद्वेति। कुप्वो क। अत्र "कुप्वो"रिति रेफस्य विसर्गः, जिह्वामूलीयस्य खत्र्वात्। "खर्परे शरी"ति विसर्गस्यास्य लोपः, जिह्वामूलीयस्य शत्र्वात्। "वा शरी"ति विसर्गस्य विसर्ग एव वा। आदेशयोः कपावुच्चारणार्थौ। चाद्विसर्ग इति। प्राचा तु "चाद्विकल्पः" इत्युक्तं , तदसत्। कपाभ्यां मुक्ते विसर्जनीयस्य सत्वप्रसङ्गात्।