प्रतिश्रवणम् अभ्युपगमः, प्रतिज्ञानम्। श्रवणाभिमुख्यं च तत्र अविशेषात् सर्वस्य ग्रहणम्। प्रतिश्रवणे यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति। मां मे देहि भोः, अहं ते ददामि३। नित्यः शब्दो भवितुमर्हति३। देवदत्त भोः, किमात्थ३।
प्रतिश्रुतिः प्रतिश्रवणम्()। प्रतिपूर्वाच्छृणोतेर्भावे ल्युट्(), "कुगति"
२।२।१८ इत्यादिना तत्पुरुषः। प्रतिपूर्वस्य शणोतिर्यदा परानुग्रहो विवक्ष्यते, तदाभ्युपगमे वत्र्तते। अथ त्वविवक्षा परानुग्रहस्य, तदा प्रतिज्ञाने। यदा श्रितिः--श्रवणमिति भावसाधनेन श्रवणशब्देन प्रतिशब्दस्य "लक्षणेनाभिप्रती आभिमुख्ये"
२।१।१३ इत्यव्ययीभावः क्रियते, तदा श्रवणाभिमुख्ये श्रवणं प्रति प्रवृत्त इत्यर्थः।
तदिह विशेषानभिधानात्? सर्वस्मिन्? प्रतिश्रवणे वाक्यस्य टेः प्लुतो भवति। "देवदत्त भोः किमात्थ३" इति। एतच्छ्रवणाभिमुख्य उदाहरणम्()। "देवतत्त भोः" इत्यामन्त्रितम्()। तप्र श्रवणार्थमेवमाह--"किमात्थ३" इति। एकत्र श्रवणमुद्दिश्य प्रवृत्तत्वादभिमुखं भवति। अभ्युपगमे तूदाहरणम्()--"गां मे देहि भोः, अहं ते ददामि३" इति। प्रतिज्ञाने--"नित्यः शब्दो भवितुमर्मति" इति।
चकारो भाषायामित्यनुकर्षणार्थः॥