पूर्वम्: ८।२।९७
अनन्तरम्: ८।२।९९
 
सूत्रम्
पूर्वं तु भाषायाम्॥ ८।२।९८
काशिका-वृत्तिः
पूर्वं तु भाषायाम् ८।२।९८

भाषायां विषये विचार्यमाणानां पूर्वम् एव प्लवते। अहिर्नु३ रज्जुर्नु। लोष्ठो नु३ कपोतो नु। प्रयोगापेक्षं पूर्वत्वम्। इह भाषाग्रहणात् पूर्वयोगश् छन्दसि विज्ञायते।
न्यासः
पूर्वं तु भाषायाम्?। , ८।२।९८

पूर्वेणैव सिद्धे नियमार्थमेतत्()। तुशब्दस्त्विष्टतोऽवधारणार्थः। असति हि तस्मिन्? विपरीतोऽपि नियमो विज्ञायेत--भाषायामेव पूर्वमिति। पूर्वत्वं च प्रयोगापेक्षम्()। अहिर्नु३, रज्जुर्नु३--इत्येतयोर्वाक्यायोर्यत्? पूर्वं प्रयुज्यते तस्यैव टेः प्लुतो भवति। इह तु भावाग्रहणात्? पूर्वयोगाश्छन्दसीति विज्ञायते॥