पूर्वम्: ८।१।६४
अनन्तरम्: ८।१।६६
 
सूत्रम्
एकान्याभ्यां समर्थाभ्याम्॥ ८।१।६५
काशिका-वृत्तिः
एकान्याभ्यां समर्थाभ्याम् ८।१।६५

एक अन्य इत्येताभ्यां समर्थाभ्यां युक्ता प्रथमा तिङ्विभक्तिः विभाषा नानुदात्ता भवति छन्दसि विषये। प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम्। जिन्वति इत्येतत्पक्षे न निहन्यते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति। अत्ति इत्येतत्पक्षे न निहन्यते। समर्थाभ्याम् इति किम्? एको देवानुपातिष्ठत्। एक इति सङ्ख्यापदम् एतत्, अन्यार्थे न वर्तते। एकशब्दस्य व्यवस्थार्थं च समर्थग्रहणम्, व्यभिचारित्वात् तस्य।
न्यासः
एकान्याभ्यां समर्थाभ्याम्?। , ८।१।६५

"समर्थाभ्याम्()" इति। नायमस्यार्थः--तिङन्तेन संगताभ्यामिति; अन्यथा ह्रस्योपादानमनर्थकमेव स्यात्(), "चदायोगे प्रथमा" ८।१।५९ इत्यतो योगग्रहणानुवृत्तेरेवास्यार्थस्य लब्धत्वात्()। तस्मात्? समानार्थाभ्यामित्यस्यायमर्थः। सा च समानार्थता तिङन्तापेक्षया भवतीति परस्परापेक्षया वेदितव्या। "एका जिन्वति" इति। जयतेर्लट्(), "व्यत्ययो बहुलम्()" ३।१।८५ इति श्नुः, "बहुलं छन्दसि" ७।१।८ इति झेरदादेशः, "हुश्नुवोः सार्वधातुके" ६।४।८७ इति यणादेशः। अनिघातपक्षे सार्वधातुकस्वरेण मध्योदात्तमेतत्()। सतिशिष्टादपि हि विकरणस्वरात्? सार्वधातुकस्वरो बलीयानिष्यते। "अत्ति" ["अन्ति"--प्रांउ।पाठः] इति। अदेः "खरि च" ८।४।५४ इति चत्र्वम्()। अनिघातपक्षे धातुस्वरेणादाद्युत्तमेतत्()। "चाकशीति" इति। "काशृ दीप्तौ" (धा।पा।६४७), अस्य यङ्लुगन्तस्य रूपमेतत्()। "उपातिष्ठत्()" इति। तिष्ठतेर्लङ पाध्रादिसूत्रेण ७।३।७८ तिष्ठादेशः। "एक इति संख्यापदमेतत्()" इति। अनेन प्रत्युदाहरण एकशब्दस्यान्यशब्देनासमानार्थतां दर्शयति। किं पुनः कारणमन्यशब्देनासमानार्थेन योगेन प्रत्युदाहरणं न दर्शितम्()? इत्याह--"एकशब्दस्य व्यवस्थार्थं च" इत्यादि। चशब्दोऽवधारणार्थः। अनेकार्थसम्भवेऽरह्थान्तराद्व्यवच्छिस्यैकत्रैवार्थे व्यवस्थानं व्यवस्था। एकशब्दस्य व्यवस्थार्थमेव समर्थग्रहणम्(); नान्यशब्दस्य व्यवस्थार्थम्()। न हि तस्यानेकार्थः सम्भवति। तस्मादेकशब्दस्य व्यवस्थार्थं समर्थग्रहणं कृतम्()। तेनैवैकशब्देनासमर्थेन योगे युक्तं प्रत्युदहरणमुपदर्शयितुम्(), नान्यशब्देनेत्यभिप्रायः। कस्मात्? पुनरेकशब्दव्यवस्थार्थमेव समर्थग्रहणं कृतम्()? इत्याह--"व्यभिचारित्वात्? तस्य" इति। एकशब्दो हि यत्रार्थेऽन्यत्रादौ वृष्टस्तं व्यभिचरति? तथा हि--स क्वचिदन्यशब्दस्यार्थे दृश्यते, क्वचित्प्राथम्ये, क्वचित्? संख्यायाम्(), तस्मादसौ व्यभिचारी। अनवस्थित इत्यर्थः। तद्व्यवस्थार्थं समर्थग्रहणं युक्तम्(), नान्यशब्दव्यवस्थार्थम्(); तस्याख्यभिचारित्वात्()। न ह्रन्यशब्दो यत्रार्थे दृष्टस्ततोऽन्यत्र वत्र्तते। नन#उ च व्यवस्थाया एतत्फलम्()--अन्यशब्दसमानार्थस्यैकशब्दस्य ग्रहणं यथा स्यादिति, एतच्चान्तरेणापि व्यवस्थाकारणं समर्थग्रहणमन्यशब्दसाहचर्यादेव लभ्यते, तदनर्थकं समर्थग्रहणम्()? नैतदस्ति; "निपातैर्यद्यदि" ८।१।३० इत्यादौ सूत्रे निपातग्रहणेन ज्ञापितम्()--साहचर्यमिह प्रकरणे व्यवस्थाकारणं न भवतीति॥