पूर्वम्: ८।१।६३
अनन्तरम्: ८।१।६५
 
सूत्रम्
वैवावेति च च्छन्दसि॥ ८।१।६४
काशिका-वृत्तिः
वैवाव इति च च्छन्दसि ८।१।६४

वै वाव इत्येताभ्यां युक्ता प्रथमा तिङ्विभक्तिः विभाषा नानुदात्ता भवति छन्दसि विषये। अहर्वै देवानामासीद् रात्रिरसुराणाम्। बृहस्पतिर्वै देवानां पुरोहित आसीच्छण्डामर्कावसुराणाम्। वाव अथं वाव हस्त आसीत्, नेतर आसीत्।
न्यासः
वैवावेति च च्छन्दसि। , ८।१।६४

"आसीत्()" इति। "अस भुवि" (धा।पा।१०६५), लङ्? अदादित्वाच्छयो लुक्(), "अस्तिसिचोऽपृक्ते" ७।३।९६ इति आट्(), स चोदात्त इत्याद्युदात्तमेतत्()। इतिकरणस्य पूर्वोक्तमेव प्रयोजनम्()। चकारोऽनुक्तसमुच्चयार्थः। या द्विः पचत्विह तस्याः संवत्सरस्य सस्यं पच्यते द्विरित्यनेन युक्ता प्रथमा तिङ्()विभक्तिः पचत्विति वा न निहन्यते॥