दयतेरङ्गस्य लिटि परतो दिगि इत्ययम् आदेशो भवति। अव्दिग्ये, अवदिग्याते, अवदिग्यिरे। दयतेः इति दीङो ग्रहणं न तु दय दाने इत्यस्य। तस्य हि लिति आम् विहितः। दिग्यादेशेन द्विर्वचनस्य बाधनम् इष्यते।
"अवदिग्ये" इत्यादि।
"देङ्? रक्षणे" (धा।पा।९६२), लिट्(), ङित्त्वादात्मनेपदम्(), प्रथपुरुषः, "लिटस्तझयोरेशिरेच्()"
३।४।८१ इत्येशिरेचौ, एरनेकाचः"
६।४।८२ इत्यादिना यणादेशः। "दयतेरिति देङो ग्रहणम्(), न तु दय दान इत्यस्य" इति। ननु च "दय दानगतिरक्षणहिंसादानेषु" (धा।पा।
४८१) इत्येतस्य ग्रहणं कस्मान्न भवति? इत्यत आह--"तस्य हि" इत्यादि। लिटीत्युच्यते, न च "दय दाने" (धा।पा।४८१)--इत्येतस्यानन्तरो लिडस्ति;
यस्मात्? तस्य "दयायासश्च" (३।१।
३७) इत्यनेनाम्? विहितः। ननु च "अमन्त्रे" इति तत्रानुवत्र्तते,
ततो मन्त्र आमोऽभावात्? स्यादेवानन्तर्यम्()? एवं मन्यते--यथादृष्टानुविधिश्छन्दसीति। न च "दय दाने" (धा।पा।४८१) इत्येतस्य मन्त्रे दिग्यादेशो दृश्यत इत्यभिप्रायः।
इहावदिग्ये--इत्यनवकाशात्वाद्? दिग्यादेसे कृते पश्चाद्? द्विर्वचनेन भवितव्यम्(), यथा चख्यावित्यत्र "चक्षिङः ख्याञ्()" (२।४।
५४) इति ख्याञादेशस्यानवकाशत्वात्? तत्र कृते पश्चाद्()द्विर्वचनम्(),
तथावदिग्ये इत्यत्रापि दिग्यादेशे कृते पश्चाद्? द्विर्वचन केन बाध्येत? इति यश्चोदयेत्()--तं प्रत्याह--"दिग्यादेशेन द्विर्वचनस्य बाधनमिष्यते" इति।
कथं पुनरिष्यमाणमपि लभ्यते? नित्यग्रहणानुवृत्तेः। इह पूर्वसूत्रान्नित्यग्रहणमनुवत्र्तते, न चात्र विभाषा प्राप्नोति, यन्निवृत्त्यर्थ नित्यग्रहणं विज्ञायते।
तस्मादन्यल्लिटि यत्? कार्यं प्राप्नोति, तन्निवृत्त्यर्थं नित्यग्रहणं विज्ञायते; तेनैवमभिसम्बन्धः करिष्यते--"लिटि प्राप्नुवतां कार्याणां दिग्यादेश एव नित्यं भवति, नान्यत्कार्यम्()"। इत्येवं द्विर्वचननिवत्र्तनं भवति। यणादेशस्तु लिटित्युच्यायं न विधीयत इति "एरनेकाचः"
६।४।४२ इत्यचि भवति॥
दयतेर्दिगि। "दिगी"ति लुप्तप्रथमाकम्।देङ्धातोर्दिगीत्यादेशः स्याल्लिटीत्यर्थः। ननु लिट एशादौ दिग्यादेशे कृते द्वित्वे सति दिदग्ये इत्यादि स्यादित्यत आह--दिग्यादेशेनेति। एतच्च स्पष्टम्। वृत्तिरिति। भाष्यस्याप्युपलक्षणम्। क्रादिनियमादिट्। दिग्यिषे दिग्याथे दिग्यिध्वे। दिग्ये दिग्यिवहे दिग्यिमहे। दाता। दास्यते। दयताम्। अदयत। दयेत। दासीष्ट।
दिग्यादेशेनेति। दयतेर्लिटि परे द्वित्वं प्राप्तं, दिग्यादेशश्च, तत्र विशेषविहितेन दिग्यादेशेन द्वित्वशास्त्रस्य बाधः, न चैवं "प्यायः पी", "चक्षिङः ख्या"ञिति पीख्याञोरपि विशेषविहितत्वात्ताभ्यां द्वित्वबाधः स्यादिति वाच्यं, विषयसप्तमीमाश्रित्य लिडुत्पत्तेः प्रागेव तयोः प्रवृत्तत्वात्। दिग्यादेशविधौ तु लिटीति परसप्तम्येव, न तु विषयसप्तमी, लक्ष्यानुरोधात्। तदेत्सूचयति-- इष्यत इति। "दयतेर्लिटि द्वित्वे प्राप्ते तद्बाधित्वा परत्वाद्दिग्यादेश"इति तु नोक्तम्। परस्परलब्धावकाशयोरेव परस्य बलीयस्त्वात्। दिग्यादेसं विना द्वित्वस्य सावकाशत्वेऽपि द्वित्वं विना दिग्यादेशस्य तदभावादिति दिक्।