पूर्वम्: ७।४।७
अनन्तरम्: ७।४।९
 
सूत्रम्
नित्यं छन्दसि॥ ७।४।८
काशिका-वृत्तिः
नित्यं छन्दसि ७।४।८

छन्दसि विषये णौ चङि उपधाया ऋवर्णस्य स्थाने ऋकरादेशो भवति नित्यम्। अवीवृधत् पुरोडाशेन। अवीवृधताम्। अवीवृधन्।
न्यासः
नित्यं छन्दसि। , ७।४।८

"अवीवृधत्()" इति। "वृधु वृद्धौ" (धा।पा।७५९) हेतुमाण्णिच्(), ततो लुङादिः। नित्यग्रहणं पूर्वसूत्रे वेत्येतदनुवृत्तेर्विज्ञापनार्थम्(); अन्यथा हि तत्राप्यस्याननुवृत्तिर्विज्ञायेत॥