पूर्वम्: ७।४।५
अनन्तरम्: ७।४।७
 
सूत्रम्
जिघ्रतेर्वा॥ ७।४।६
काशिका-वृत्तिः
जिघ्रतेर् वा ७।४।६

जिघ्रतेः अङ्गस्य नौ चङि उपधाया इकारादेशो वा भवति। अजिघ्रिपत्, अजिघ्रिपताम्, अजिघ्रिपन्। अजिघ्रपत्, अजिघ्रपताम्, अजिघ्रपन्।
न्यासः
जिघ्रतेर्वा। , ७।४।६

एषोऽपि ह्यस्वापवादः। अत्रापि श्तिपा निर्देशस्य तदेव प्रयोजनम्()--अजाघ्रपदिति॥
बाल-मनोरमा
जिघ्रतेर्वा ४१७, ७।४।६

जिघ्रतेर्वा। घ्राधातोरुपधाया इद्वा स्याच्चङ्परे णावित्यर्थः। अजिघ्रप् अ त् इति स्थिते उपधाया विकल्पः। उरृदिति। धातोरुपधाया ऋकारस्य ऋद्वा चङ्परे णाविति व्याख्यातं चुरादौ। अचीकृतदिति।कृ()त् इ अ त् इति स्थिते ऋत्त्वपक्षे कृत् इत्यस्य द्वित्वे उरदत्वे हलादिशेषे अभ्यासचुत्वे सन्वत्त्वादित्त्वे तस्यदीर्गे रूपम्। अचिकीर्तदिति। कृ()त् इ अ त् इति स्थिते "उरृ" दित्युपधाया ऋत्वाऽभावपक्षे "उपधायाश्चे"ति इत्त्वे रपरत्वे "किर्न्" इत्यस्य द्वित्वे उत्तरखण्डे "उपधायां चे"ति दीर्घे रूपम्। अवीवृतदिति। "वृतु वर्तने"। णिचि लघूपधगुणं बाधित्वा "उरृत्"। चङि "वृत्ित्यस्य द्वित्वे उरदत्वे सन्वत्तवादित्त्वं दीर्घश्चेति भावः। अववर्तदिति। ऋत्त्वाऽभावपक्षे वृद्धित्यस्य द्वित्वे उरदत्त्वे उत्तरखण्डस्य लघूपधगुणे रूपम्। लघुपरकत्वाऽभावान्न सन्वत्तवदीर्घौ। अमीमृजदिति। उपधाया ऋत्त्वपक्षे रूपम्। अममार्जिदिति। उपधाया ऋत्()तवाऽभावपक्षे द्वित्वे उरदत्त्वे उत्तरखण्डे "मृजेर्वृद्धि"रिति वृद्धौ रपरत्वे रूपम्। लघुपरत्वाऽभावान्न सन्वत्त्वम्। पातर्णौ लुगिति। लुगागम इत्यर्थः। पुकोऽपवाद इति। आदन्तलक्षणपुकोऽपवादैत्यर्थः।यद्यपि "पाल रक्षणे" इति धातोरेव सिद्धं,तथापि पुको निवृत्तिः फलम्।

तत्त्व-बोधिनी
जिघ्रतेर्वा ३६५, ७।४।६

"उरृत्"। चुरादौ व्याख्यातम्। अचिकीर्तदिति। ऋदादेशाऽभावपक्षे "उपधायायश्चे"तीत्वे रपरत्वम्। "उपधायां चे"ति दीर्घः।

* पातेर्णौ लुग्वक्तव्यः। पुकोऽपवाद इति। आदन्ततवात्पुकः प्राप्तिः। एवं च लुगागमस्य पुङ्निवृत्तिरेव फलम्। "पालयती"ति रूपस्य "पाल रक्षणे" इति धातुनापि सिद्धेरिति भावः।