पूर्वम्: ७।४।४
अनन्तरम्: ७।४।६
 
सूत्रम्
तिष्ठतेरित्॥ ७।४।५
काशिका-वृत्तिः
तिष्ठतेरित् ७।४।५

तिष्ठतेरङ्गस्य णौ चङि उपधायाः इकारादेशो भवति। अतिष्ठिपत्, अतिष्ठिपताम्, अतिष्ठिपन्।
लघु-सिद्धान्त-कौमुदी
तिष्ठतेरित् ७०६, ७।४।५

उपधाया इदादेशः स्याच्चङ्परे णौ। अतिष्ठिपत्॥ घट चेष्टायाम्॥
न्यासः
तिष्ठतेरित्?। , ७।४।५

अयमपि ह्यस्वापवादः। "ईच्चाभ्यागस्य" ७।४।४ इति निवृत्तम्()। श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थ एव--अतास्थपदिति॥
बाल-मनोरमा
तिष्ठतेरित् ४१६, ७।४।५

तिष्ठतेरित्। "णौ चङ्युपधायाः" इत्यनुवर्तते। तदाह -- उपधाया इति।

तत्त्व-बोधिनी
तिष्ठतेरित् ३६४, ७।४।५

तिष्ठतेरित्। तकारो मन्दप्रयोजनः। श्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थः। अतास्थपत्। लटि-- तास्थापयतीति तास्थापेति।