पूर्वम्: ७।३।६३
अनन्तरम्: ७।३।६५
 
सूत्रम्
ओक उचः के॥ ७।३।६४
काशिका-वृत्तिः
ओक उचः के ७।३।६४

उचेर् धातोः के प्रत्यये ओकः इति निपात्यते। किम् पुनरत्र निपात्यते? कुत्वं गुणश्च। न्योकः शकुनतः। न्योको गृहम्। कर्तरि इगुपधलक्षणः कः प्रत्ययः। अधिकरणादौ तु कारकान्तरे घञर्थे कविधानम् इति। किम् अर्थं पुनरयं घञ्येव न व्युत्पद्यते? स्वरार्थम् अन्तोदात्तो ऽयम् इष्यते, घञि सति आद्युदात्तः स्यात्। दिवौकसः, जलौकसः इत्येवम् आदावप्यसुनि प्रत्यये उणादयो बहुलम् ३।३।१ इति कुत्वं द्रष्टव्यम्।
न्यासः
आक उचः के। , ७।३।६४

"न्योकः" इति। निपूर्वात्? "उच समवाये" (धा।पा।१२२३) इत्यस्मात्? "इगुपधज्ञप्रीकिरः कः" ३।१।१३५--न्युचतीति न्योकः, निवसतीत्यर्थः। न्युचन्त्यस्मिन्निति "घञर्थे कविधानम्()" (वा।३०६) इति वा कः--न्योकः, निवसन्त्यस्मिन्नित्यर्थः। "किमर्थं पुनः" इत्यादि। एवं मन्यते--रूढिशब्दोऽयम्(), नात्र कश्चिदवयवार्थोऽस्ति, व्यत्पत्तिः केवलं कत्र्तव्या, सा च "हलश्च" ३।३।१२१ इति घञ्यपि कृते भवत्येव, ततो नार्थोऽनेन योगेनेति। "घञि सत्याद्युदात्तः स्यात्()" इति। "ञ्नित्यादेर्नित्यम्()" ६।१।१९१ इत्यनेन। अथ दिवौकसः, जलौकस इत्यादौ कथं कुत्वम्ष यावता नात्र कप्रत्ययोऽस्ति, नापि धिण्ण्यतौ, किं तर्हि? असुन्निति? अत आह--"दिवौकसः" इत्यादि। गतार्थम्()॥
तत्त्व-बोधिनी
ओक उचः के ५७९, ७।३।६४

घञा सिद्धे इति। "उच समवाये" इत्यस्माद्धञि "चजो"रिति कुत्वे लघूपधगुणे च "ओक " इति रूपं सिध्यति, परं तु "ञ्नित्यादिर्नित्य"मित्याद्युदात्तत्वमनिष्टं स्यादिति भावः।