पूर्वम्: ७।३।६२
अनन्तरम्: ७।३।६४
 
सूत्रम्
वञ्चेर्गतौ॥ ७।३।६३
काशिका-वृत्तिः
वञ्चेर् गतौ ७।३।६३

वञ्चेः अङ्गस्य गतौ वर्तमानस्य कवर्गादेशो न भवति। वञ्च्यं वञ्चन्ति वणिजः। गतौ इति किम्? वङ्कं काष्ठम्। कुटिलम् इत्यर्थः।
न्यासः
वञ्चेर्गतौ। , ७।३।६३

"वञ्चम्()" इति। "वञ्चु चञ्चु तञ्चु त्वञ्च म्रुञ्चु म्लञ्चु भ्रुचु म्लुचु गत्यर्थाः (धा।पा।१८९-१९६)। कर्मणि घञ्()। वञ्च्यं वञ्चन्ति गन्तव्यं गच्छन्तीत्यर्थः। "चङ्कम्()" इति। "हलश्च" ३।३।१२१ इति घञ्()॥
बाल-मनोरमा
वञ्चेर्गतौ ६९७, ७।३।६३

वञ्चेर्गतौ। कुत्वं नेति। शेषपूरणमिदम्। "चजोः कु घिण्ण्यतो"रित्यतः कुग्रहणस्य, "न क्वादे"रित्यतो नेत्यस्य चाऽनुवृत्तेरिति भावः।