पूर्वम्: ७।२।३२
अनन्तरम्: ७।२।३४
 
सूत्रम्
सोमे ह्वरितः॥ ७।२।३३
काशिका-वृत्तिः
सोमे ह्वरितः ७।२।३३

ह्वरितः इति ह्वरतेर् निष्ठायाम् इडागमो गुणश्च निपात्यते छन्दसि विषये, सोमश्चेद् भवति। मा नः सोमो ह्वरितः। विह्वरितस्त्वम्।
न्यासः
सोमे ह्वरित। , ७।२।३३

"इडागमो गुणश्च निपात्यते" इति। चकारात्? "ह्यु" इत्येतस्यादेशाभावश्च॥
बाल-मनोरमा
वा द्रुहमुहष्णुहष्णिहाम् , ७।२।३३

वा द्रुहः। "दादे"रित्यतो घ इत्यनुवर्तते। झलीति पदस्येति अन्ते #इति पूर्ववदनुवर्तते। तदाह--एषामिति। द्रुहादीनां चतुर्णामित्यर्थः। ध्रुक्--ध्रुगिति। घत्वपक्षे भष्भावे चत्र्वविकल्प इति भावः। ध्रुट् ध्रुडिति। घत्वाऽभावपक्षे "हो ढः" इति ढत्वे भष्भावे चत्र्वविकल्पः। अत्र भष्भावार्थमेव "हो ढः" इति सूत्रे ढ एव विहित, नतु डः। तथा सति झषन्तत्वाऽभावाद्भष्भावो न स्यात्। अचि सुपि दुर्हमित्यादि। ध्रुग्भ्यामिति। घत्वपक्षे भष्भावः। ध्रुड्भ्यामिति। घत्वाऽभावपक्षे ढत्वे जश्त्वे रूपम्। एवं भिसि भ्यसि च रूपद्वयम्। द्रुहः। द्रुहः। द्रुहोः द्रुहाम्। ध्रुक्ष्विति। घत्वे भष्भावे "आदेशप्रत्यययोः" इति षत्वे "खरि चे"ति चत्र्वम्। ध्रुट्त्स्विति। घत्वाऽभावपक्षे ढत्वे भष्भावे ढस्य जश्तेव धुटि चर्त्वे डस्य चत्र्वम्। चत्र्वस्याऽसिद्धत्वा"च्चयो द्वितीयाः" इति तकारस्य थो न भवति। " न पदान्ता"दिति ष्टुत्वं न। ध्रुट्स्विति। धुडभावे रूपम्। हस्य ढः, भष्भावः, ढस्य जश्त्वेन डः, तस्य चर्त्वेन टः। एवमिति। "भष्भाववर्ज"मिति शेषः। वि()आं वहतीत्यर्थ "भजोण्वि"रित्यतो ण्विरित्यनुवृत्तौ "वहश्चे"ति ण्विः। णकार इत्। वेर्लोपः। "अत उपधायाः" इति वृद्धिः। उपपदसमासः। वि()आवाहितिं रूपम्। ततस्सोर्हल्ङ्याबिति लोपे हो ढः" इति ढत्वे "वाऽसाने" इति चत्र्वविकल्पे-वि()आवाट् वि()आआड्, वि()आआहौ, वि()आवाहः।