पूर्वम्: ७।२।३१
अनन्तरम्: ७।२।३३
 
सूत्रम्
अपरिह्वृताश्च॥ ७।२।३२
काशिका-वृत्तिः
अपरिह्वृताश् च ७।२।३२

अपरिह्वृताः इति निपात्यते छन्दसि विषये। ह्रु इत्येतस्य आदेशस्य अभावो निपात्यते। अपरिह्वृताः सनुयाम वाजम्।
न्यासः
अपरिहूवृताश्च। , ७।२।३२

"ह्यु" इत्येतस्यादेशस्याभावो निपात्यते" इति। पूर्वसूत्रेण प्राप्तस्य। बहुवचननिर्देशो बहवचन एव निपातनं यथा स्यात्()। तेन क्चनान्तरे हि अपरिह्युतः, अपरिह्यु, अपरिह्युतावित्येव भवति॥