पूर्वम्: ६।४।५७
अनन्तरम्: ६।४।५९
 
सूत्रम्
युप्लुवोर्दीर्घश्छन्दसि॥ ६।४।५८
काशिका-वृत्तिः
युप्लुवोर् दीर्घश् छन्दसि ६।४।५८

यु प्लु इत्येतयोर् ल्यपि परतः छन्दसि विषये दीर्घो भवति। दान्त्यनुपूर्वं वियूय। यत्रा यो दक्षिणा परिप्लूय। छन्दसि इति किम्? संयुत्य। आप्लुत्य।
न्यासः
युप्लुवोर्दीर्घश्छन्दसि। , ६।४।५८

"यु मिश्रणे" (धा।पा।१०३३) [मिश्रणेऽमिश्रणे च--धा।पा।] "प्लुङः गतौ" (धा।पा।९५८) अनयोर्धात्वोस्तुकि प्राप्ते दीर्घाथं वचनम्()॥