पूर्वम्: ६।४।५६
अनन्तरम्: ६।४।५८
 
सूत्रम्
विभाषाऽ‌ऽपः॥ ६।४।५७
काशिका-वृत्तिः
विभाषा आपः ६।४।५७

आप उत्तरस्य णेर्ल्यपि परतो विभाषा अयादेशो भवति। प्रापय्य गतः, प्राप्य गतः। इङादेशस्य लाक्षणिकत्वान् न भवति, अध्याप्य गतः।
न्यासः
विभाषाऽ‌ऽपः। , ६।४।५७

"प्रापय्य" इति। "आप्लृ लम्भने" (धा।प।१८३९), "आप्लृ व्याप्तौ" (धा।पा।१२६०) द्वयोरपि ग्रहणम्()। पूर्धकश्चुरादिः, अपरः स्वादिः। अथ "अध्याप्य गतः" इत्यतर कस्मान्न भवति, अत्रापि "क्रीङजीनां णौ" ६।१।४७ इतीङ आत्त्वे कृते "अर्त्तिह्यी" (७।३।३६) इत्यादिना पुक्याप उत्तरो णिर्भवति? इत्यत आह--"इङादेशस्य" इत्यादि। यद्येवम्(), "अप आचष्टे" इत्यप्शब्दाण्णिचि कृते "प्रापय्य" इत्यादि न स्यात्(), लाक्षणिकत्वादेव मा भूदनेन, पूर्वेण सूत्रेण भविष्यति, ननु चैकादेशे कृते सत्यलघुपूर्वत्वान्न प्राप्नोति? एकादेशस्यासिद्धत्वान्न दोषः। कथम्()? "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।पा।४२) इति बहिरङ्गत्वन्त्वेकादेशस्य द्विपदाश्रयत्वात्()। अयादेशस्य पुनर्णिमात्राश्रयत्वादन्तरङ्गत्वम्()॥
तत्त्व-बोधिनी
विभाषाऽ‌ऽपः १६०५, ६।४।५७

आप्नोतेरिति॥ यद्यपीङो णिचि परतः "क्रीङजीनां णौ" इत्यात्वे "अर्तिह्यी"त्यादिना पुकि आबिति शब्दोऽस्ति, तथापि तस्य नेह ग्रहणं, लाक्षणिकत्वादिति भावः। प्राप्येति। एतेन "अयमयोगिवधूवधपातकैभ्र्रमिमवाप्य दिवः खलु पात्यते" इति श्रीहर्षप्रयोगा व्याख्यातः। "अवाप्ये"त्यस्याऽवपय्येत्र्थसंभवात्। एतेन तत्राऽन्तर्भावितण्यर्थतेति क्लेशमनुभवन्तः परास्ताः। ल्यप्स्थानिनां कित्त्वात् "वचिस्वपी"ति प्राप्तं संप्रसारणं निषेधयितुमाह-- ल्यपि चेति।