पूर्वम्: ६।४।१२४
अनन्तरम्: ६।४।१२६
 
सूत्रम्
फणां च सप्तानाम्॥ ६।४।१२५
काशिका-वृत्तिः
फणां च सप्तानाम् ६।४।१२५

फणादीनां सप्तानां धातूनाम् अवर्णस्य स्थाने वा एकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि। फेणतुः। फेणुः। फेणिथ। पफणतुः। पफणुः। पफणिथ। रेजतुः। रेजुः। रेजिथ। रराजतुः। रराजुः। रराजिथ। भ्रेजे, भ्रेजाते, भ्रेजिरे। बभ्राजे, बभ्राजाते, बभ्राजिरे। भ्रेशे, भ्रेशाते, भ्रेशिरे। बभ्राशे, बभ्राशाते, बभ्राशिरे। भ्लेशे, भ्लेशाते, भ्लेशिरे। बभ्लाशे, बभ्लाशाते, बभ्लाशिरे। स्येमतुः। स्येमुः। स्येमिथ। सस्यमतुः। सस्यमुः। सस्यमिथ। स्वेनतुः। स्वेनुः। स्वेनिथ। सस्वनतुः। सस्वनुः। सस्वनिथ। सप्तानाम् इति किम्? दघ्बनतुः। दध्बनुः। दध्वनिथ।
न्यासः
फणाञ्च सप्तानाम्?। , ६।४।१२५

बहुवचननिर्देशादाद्यर्थो गम्यते। अत आह--"फणादीनाम्()" इत्यादि। "फण गतौ" (धा।पा।८२१) "राजृ दीप्तौ" (धा।पा।८२२) "टु भ्राजृ टु भ्राश्रृ टु भ्लाश्रृ दीप्तौ" (धा।पा।८२३-८२५)। "स्यमु स्वन ध्वन शब्दे" (धा।पा।८२६-८२८) इत्येते ध्वनवर्जिताः फणादयः सप्त। तत्राद्यस्य नित्ये प्राप्ते विकल्पार्थं वचनम्(), इतरेषामप्राप्ते। तत्र राजृप्रभृतीनां चतुर्णामवर्णस्यैत्त्वस्य प्रतिप्रत्तये "राधो हिंसायाम्()" ६।४।१२३ इत्यत्र "अत इत्येतदिहोपस्थितम्()" इत्यादिना यदुक्तं तद्यथासम्भवं वेदितव्यम्()॥
तत्त्व-बोधिनी
फणां च सप्तानाम् १६४, ६।४।१२५

फण गतौ। फणति। लुङि। अफाणीत्। अफणीत्। णौ तु "चिण्णमुलो"रिति वा दीर्घः। अफणि। अफाणि। फणंफणम्। फाणंफाणम्। असंभवादिति। मित्त्वप्रा()प्त विना निषेधाऽसंभवादिह "ने"त्येतन्न संबध्यते किंतु मित्संज्ञैव। तदेतदाह-- फणयति। (ग) वृत्। वृत्। सामथ्र्यादिति। फणादिषु पाठसामथ्र्यादित्यर्थः। तत्र हीति। षत्वविधौ हीत्यर्थः। तथा च विभ्राट्। विभ्राड्भ्याम्। पूर्वं पठितस्य तु विभ्राक् विभ्राग्भ्यामित्यादि सिध्यतीति भावः। अस्यमीदिति। मान्तत्वान्न वृद्धिः। अथ ज्वलादिः। अज्वालीदिति। "अतो ल्रान्तस्ये"ति वृद्धिः। वैक्लव्य इति। वैक्लव्यं -- भयादिजनितोद्विग्नता। तद्वयापार इति। बन्धुतानुकूलो व्यापारः।