पूर्वम्: ६।४।१२३
अनन्तरम्: ६।४।१२५
 
सूत्रम्
वा जॄभ्रमुत्रसाम्॥ ६।४।१२४
काशिका-वृत्तिः
वा जृ̄भ्रमुत्रसाम् ६।४।१२४

जृ̄ भ्रमु त्रस इत्येतेषाम् अङ्गानाम् अतः स्थाने वा एकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि। जेरतुः। जेरुः। जेरिथ। जजरतुः। जजरुः। जजरिथ। भ्रेमतुः। भ्रेमुः। भ्रेमिथ। बभ्रमतुः। बभ्रमुः। बभ्रमिथ। त्रेसतुः। त्रेसुः। त्रेसिथ। तत्रसतुः। तत्रसुः। तत्रसिथ।
लघु-सिद्धान्त-कौमुदी
वा जॄभ्रमुत्रसाम् ६३४, ६।४।१२४

एषां किति लिटि सेटि थलि च एत्वाभ्यासलोपौ वा। त्रेसतुः, तत्रसतुः। त्रेसिथ, तत्रसिथ। त्रसिता॥ शो तनूकरणे॥ ५॥
न्यासः
वा जृ?भ्रमुत्रसाम्?। , ६।४।१२४

"जृ? वयोहानौ" (धा।पा।१४९४) ["जृ--मु।पाठः] इत्यस्य गुणार्थं वचनम्()। भ्रमेरादेशार्थम्(), अनेकहल्मध्यार्थञ्च त्रसेश्चानेकहल्मध्यर्थम्()। "जजरतुः" इति। पूर्ववद्गुणः॥
बाल-मनोरमा
वा जृ?भ्रमुत्रसाम् १९३, ६।४।१२४

वा जृ()भ्रसु। "अत एकहल्मध्ये" इत्यतो लिटीति, "थलि च सेटी"ति चानुवर्तते। "ध्वसोरेद्धौ" इत्यत एदिति, "गमहने"त्यतः कितीति च। तदाह--एषामिति। अभ्रमीदिति। "ह्म्यन्ते"ति न वृद्धिः। अक्षारीदिति। "अतो ल्रान्तस्ये"ति वृद्धिः। षह। अपराधे सत्यपि कोपाऽनाविष्करणं मर्षमम्। इडभावे इति। सह्--ता इति स्थिते "हो ढः" इति ढत्वं, "झषस्तथो"रिति तकारस्य धत्वम्। धस्य ष्टुत्वेन ढः। "ढो ढे लोपः" इति पूर्वस्य ढस्य लोप इत्यर्थः। स ढा इति स्थितम्।

तत्त्व-बोधिनी
वा जृ?भ्रमुत्रसाम् १६६, ६।४।१२४

वाजृ()भ्रमुत्रसाम्। अप्राप्तविभाषेयम्। अंभ्रमीदिति। मान्तत्वान्न वृद्धिः। अक्षारीदिति। हलन्तलक्षणाया वृद्धेः "नेटी"ति निषेधेऽपि "अतो ल्रान्तस्ये"ति वृद्धिः। षह। अपराधे सत्यपि कोपाऽनाविष्करणं मर्षणम्।