सूत्रम्
अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशिराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु॥ ६।३।९८
काशिका-वृत्तिः
अषष्थ्यतृतीयास्थस्य अनयस्य दुगाशीराशाऽअस्थाऽअस्थितौत्सुकौउतिकारकरागच्छेषु ६।३।९९
अषष्थीस्थस्य अतृतीयास्थस्य च अन्यशब्दस्य दुगागमो भवति आशिसाशा आस्था आस्थित उत्सुक ऊति कारक राग छ इत्येतेषु परतः। अन्या आशीः अन्यदाशीः। अन्या आशा अन्यदाशा। अन्या आस्था अन्यदास्था। अन्य आस्थितः अन्यदास्थितः। अन्य उत्सुकः अन्यदुत्सुकः। अन्या ऊतिः अन्यदूतिः। अन्यः कारकः अन्यत्कारकः। अन्यः रागः अन्यद्रागः। अन्यस्मिन् भवः अन्यदीयः। गहादिष्वन्यशब्दो द्रष्टव्यः। अषष्ठ्यतृतीयास्थस्य इति किम्? अन्यस्य आशीः अन्याशीः। अन्येन आस्थितः अन्यास्थितः। दुगागमो ऽविशेषेण वक्तव्यः कारकच्छयोः। षष्ठीतृतीययोर् नेष्ट आशीरादिषु सप्तसु। अन्यस्य कारकम् अन्यत्कारकम्। अन्यस्य इदम् अन्यदीयम्। अस्य च द्विर्नञ्ग्रहणं लिङ्गम्।
न्यासः
अषष्ठ�तृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सकोतिकारकरागच्छेषु। , ६।३।९८
"अन्याशीरन्यदाशीः" इत्यादि। विग्रहविशेषेण सर्वत्र विशेषणसमासं दर्शयति "अन्येनास्थितोऽन्यदस्थितः" इति। "कर्तृकरणे कृता बहुलम्()"
२।१।३१ इति समासः।
"दृगागमोऽविशेषेण" इत्यादि। कारकशब्दे छप्रत्यये परतोऽविशेषेण सामान्येन दुगागमः कत्र्तव्यः। अन्येष्वाशीरादिषु सप्तसूत्तरपदेषु षष्ठीतृतीयास्थयोर्नेष्टो नाभिमतः।
किं पुनरस्यार्थस्य लिङ्गं यतोऽयमवसीयते? इत्यत आह--"अस्य च" इत्यादि। अषष्ठीतृतीयास्थस्येत्येवं सिद्धे द्विर्नञुपादानमस्य प्रतिषेधस्यानित्यत्वे लिङ्गम्()।
तेन क्वचित्? षष्ठीतृतीयास्थस्यापि समासे दुगागमो भवत्येव॥
बाल-मनोरमा
अषष्ठ�तृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु १०१०, ६।३।९८
अषठ()तृतीयास्थस्य। अषष्ठ()आमतृतीयायां च परतस्तिष्ठतीति अषष्ठ()तृतीयास्थः, तस्य। अषष्ठीतृतीयान्तस्येत्यर्थः। "अषष्ठीतृतीयास्थस्ये"त्येव सिद्धे नञ्द्वयोपादानं स्पष्टार्थंम्। आशीरादिष्विति। आशीः, आशा, आस्था, आस्थित, उत्सुक, ऊति, कारक, राग, छ-इत्येतेषु इत्यर्थः। दुकि ककार इत्। उकार उच्चारणार्थः। कित्त्वादन्तावयवः। अन्यदाशीरित्यादयः कर्मधारयाः। नायं निषेध इति। "अषष्ठ()तृतीयास्थस्ये"ति निषेधः कारकच्छयोर्नास्तीत्यर्थः। भाष्योक्तमिदम्।
तत्त्व-बोधिनी
अषष्ट�तृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु ८५७, ६।३।९८
अषष्ठ()। अन्यदाशीरित्यादयः कर्मधारयाः।
कारके छे च नायं निषेधः। नायं निषेध इति। एतच्च "अषष्ठी तृतीयास्थस्ये"त्येव सिद्धे निषेधाऽनित्यत्वज्ञापनार्थाद्द्विर्नञ उपादानाल्लभ्यत इत्याहुः।
त्रौ च। त्रौ चेति। अनजाद्यर्थमिदं वार्तिकं, "कत्त्र्यादिभ्यो ढकञि"ति निर्देशेनैव सिद्धम्।