पूर्वम्: ६।३।५७
अनन्तरम्: ६।३।५९
 
सूत्रम्
एकहलादौ पूरयितव्येऽन्यतरस्याम्॥ ६।३।५८
काशिका-वृत्तिः
एकहलादौ पूरयितव्ये ऽन्यतरस्याम् ६।३।५९

उदकस्योद इति वर्तते। एकः, असहायः तुल्यजातीयेन अनन्तरेण हलादिना, हलादिर् यस्य उत्तरपदस्य तदेकहलादिः, तस्मिन्नेकहलादौ पूरयितव्यवाचिन्यन्यतरस्याम् उदकस्य उद इत्ययम् आदेशो भवति। उदकुम्भः, उदककुम्भः। उदपात्रम्, उदकपात्रम्। एकहलादौ इति किम्? उदकस्थालम्। पूरयितव्ये इति किम्? उदकपर्वतः।
न्यासः
एकहलादौ पूरयितव्येऽन्यतरस्याम्?। , ६।३।५८

यद्येकशब्दः सुख्यावचन इह गृह्रते, तदानर्थकं तस्य ग्रहणं स्यात्()। न हि क्वचित्? द्वौ बहवो वा हल आदिभूताः सम्भवन्ति, यद्व्यवच्छेदार्थमेकग्रहणं क्रियते। तस्मादसहायवचनोऽयमेकशब्दः। एवमपि यः कश्चिदविशिष्ट एकोऽसहायो हल्? आदिर्यस्य तदेकहलाद्युत्तरपदं गृह्रेत, तदोदकस्थानमित्यत्रापि स्यात्()। अत्रापि हि सकारोऽसहाय एव एकहल्()। यद्यनेके वर्णा युगपदुच्चार्येरन्(), उच्चरिता वा वर्णा न प्रध्वंसेरन्(), तदा ससहायस्यापि स्यादादित्वम्()। न चैवम्(); यतो वर्णा न युगपदुच्चार्यन्ते, ते चोच्चारितप्रध्वसिनः। तस्मान्नास्त्येव क्वचित्? किंचिदनेकहलादित्वं यद्व्यवच्छेदार्थमेकहलादावित्युच्यते। उक्तं चेदम्()। अतोऽस्मादेव वचनाद्विशिष्टमात्रैकहलादित्वं विवक्षितमित्येतत्? सर्वं चेतसि कृत्वा तदेव विशिष्टं दर्शयितुमाह--"एकोऽसहायः" इत्यादि। यश्चातुल्यजातीयेनाप्यचा विनैको हल्? स आदिर्यस्येति तदेकहलादि। तुल्यजातीयेन चव्यवहितेनापि यस्य तदेकहलादीहाश्रीयेत तदा न क्वचित्? स्यात्(); तथाविधस्योत्तरपदस्य पूरयितव्यवाचिनोऽभावात्(), उच्यते चेदम्()। तस्माद्वचनप्रामाण्यात्? तुल्यजातीयेन हलाऽनन्तरेणाव्यवहितेन विना यो वत्र्तते सोऽसहाय एव#एहैकशब्देनासहायवाचिना विवक्षित इति गम्यते। एवंदिधो हलादिर्यस्य तदेकहालादि। न चैवंविधः स्थानशब्दस्यादिर्हलस्तीत्येकहलादिगरहणेन स्थानशब्दो निवत्र्तते। "पूरियतव्यवाचिनि" इति। उदकादिना द्रव्येणान्तव्र्याप्तव्यः पूरयितव्य इत्युच्येत। तद्वक्तुं शीलमस्येति ताच्छीलिको णिनिः॥
बाल-मनोरमा
एकहलादौ पूरयितव्येऽन्यतरस्याम् ९८२, ६।३।५८

एकहलादौ। हस्त्वस्य एकैकवर्मधर्मत्वादेव सिद्धे एकग्रहणादसंयुक्तत्वं लभ्यते। पूरयितव्यं=पूरणार्हं कुम्भादि। असंयुक्तहलादौ पूरयितव्यवाचके उत्तरपदे परे उदकस्य उद इत्यादेशः स्यादित्यर्थः।