ऋक्षम्बन्धिनः पादशब्दस्य शे परतः पदित्ययम् आदेशो भवति। पच्छो गायत्रीं शंसति। पादं पादं शंसति इति सङ्ख्यैकवचनाच् च वीप्सायाम्
५।४।४३ इति शस् प्रत्ययः।
ऋचः इति किम्? पादशः कार्षापणं ददाति इति।
"शे" इति तद्धितस्य शस्प्रत्ययस्यावयवभूतो यः शशब्दस्तस्येह ग्रहणम्();
ऋक्पादात्? परसयासम्भवात्()। ननु च पादे शेते इति "अधिकारणे शेतेः" (३।२।
१५) इत्यचि कृते पादश इतयत्र शीङ्सम्बन्धी शशब्दः सम्भवति? नैतदस्ति; न हि ऋक्पाद उपपदे शेतेर्धातोरचा भवितव्यम्(); तत्र तु शयनग्सम्भवत्(), अनभिधानाद्वा। योऽपि "लोमादिपामादिपिच्छादिब्यः सनेलचः"
५।२।९९ इति शो विधीयते,
सोऽपि नैव ऋक्पादत्? परः सम्भवति; तत्रानभिधानात्()। लोमादिषु तस्यापाठाच्च॥
ऋचः शे। शस्य शस्प्रत्ययैकदेशस्यानुकरणात्सप्तमीत्यभिप्रेत्योदारति--पच्छ इति। "सङ्ख्यैकवचनाच्च वीप्साया"मिति पादशब्दाच्छस्। तद्दितश्चासर्वविभक्ति"रित्यव्ययत्वम्, नत्विह लोमादिशस्य ग्रहणं, लोमादौ पादशब्दस्य पाठाऽभावात्। पादशः कार्षापणं ददातीति। कार्षापणाख्यापरिमाणविशेषं सुवरह्णादिकं पादं पदां ददातीत्यर्थः।