पूर्वम्: ६।३।१३१
अनन्तरम्: ६।३।१३३
 
सूत्रम्
ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्॥ ६।३।१३२
काशिका-वृत्तिः
ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ६।३।१३३

ऋचि विषये तु नु घ मक्षु तङ् कु त्र उरुष्य इत्येषां दीर्घो भवति। आ तू न इन्द्र वृत्रहन्। नु नू करणे। घ उत वा घा स्यालात्। मक्षु मक्षू गोमन्तमीमहे। तङ् भरता जातवेदसम्। तङिति थादेशस्य ङीत्वपक्षे ग्रहणं, तेन इह न भवति, शृणोत ग्रावाणः। कु कूमनः। त्र अत्रा गौः। उरुष्य उरुष्या णो।
न्यासः
ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्?। , ६।३।१३२

तङिति प्रत्याहिराग्रहणम्()--लोष्मध्यमपुरुषबहुवचनादारभ्य महिङो ङकारेण। "आ तू न इन्द्र वृत्रहन्()" इति। आ तु न इति प्राप्ते। एवमुत्तरत्रापि ह्यस्वप्रयोगे प्राप्ते दीर्घो वेदितव्यः। "लस्यात्()" इति। "लस श्लेषणक्रीडनयोः" (दा।पा।७१४) इत्यस्याशिषि लिङि रूपमेतत्()। अथ घग्रहणेनात्र तरप्तमपोः प्रत्यययोग्र्रहणं कस्मान्न भवति? तदन्तस्य कृतदीर्घस्य ऋग्विषये प्रयोगासम्भवात्()। "भरता" इति। "भृ भरणे (धा।पा।८९८) ["भृञ्? भरणे" धा।पा; "भृ भत्र्सने" (भरणेऽपीत्येके)--धा।पा।१४९२] इत्यस्माद्धातोर्लोण्मध्यमपुरुषस्य बहुवचने रूयमेतत्()। "श्रृणोत ग्रावाणः" इति। अत्र तु न भवति; "सर्वे विधयश्छन्दसि विकल्प्यन्ते" (पु।प।वृ।५६) इति वचनात्()। "अत्रा" इति। त्रलन्तमेतत्()। "सप्तम्यास्त्रल्()" ५।३।१० इति त्रलि कृते "एतदोऽश्()" ५।३।५ इत्यनेनैतदोशादेशः। "उरुष्या णः" इति। आत्मन उरुमिच्छति "सुपाअत्मनः क्यच्()" ३।१।८ इति क्यच्? ततः सर्वप्रातिपदिकेभ्यो लालसायामसुग्वक्तव्यः" (वा ८२४) इत्यौपसंख्यानिकोऽसुक्(), "सुषमादिषु च" (८।३।९८) इति षत्वम्(), लोण्मध्यमपुरुषस्यैकवचनम्(), "अतो हेः" ६।४।१०५ इति हेर्लुक्()। "न" इति। "बहुवचनस्य वस्नसौ" ८।१।२१ इत्यस्मदादेशोऽयम्()। णत्वं तु वर्णव्यत्ययेन। "उपसर्गाद्बहुलम्()" ८।४।२७ इति बहुलवचनाद्वा। अन्ये तु--"उरुष्य इति निपातः" इत्याचक्षते॥