पूर्वम्: ६।३।१२६
अनन्तरम्: ६।३।१२८
 
सूत्रम्
विश्वस्य वसुराटोः॥ ६।३।१२७
काशिका-वृत्तिः
विश्वस्य वसुराटोः ६।३।१२८

विश्वशब्दस्य वसु राटित्येतयोः उत्तरपदयोः दिर्घ आदेशो भवति। विश्वावसुः। विश्वाराट्। राटिति विकारनिर्देशो यत्र अस्य एतद् रूपं तत्र एव यथा स्यात्। इह न भवति, विश्वराजौ। विश्वराजः।
लघु-सिद्धान्त-कौमुदी
विश्वस्य वसुराटोः ३१०, ६।३।१२७

विश्वशब्दस्य दीर्घोऽन्तादेशः स्याद्सौ राट्शब्दे च परे। विश्वराट्, विश्वराड्। विश्वराजौ। विश्वराड्भ्याम्॥
न्यासः
वि�आस्य वसुराटोः। , ६।३।१२७

"वि()आआवसुः" इति। वि()आं वसु यस्येति बहुव्रीहिः। "वि()आआराट्()" इति। वि()आस्मिन्? राजत इति "सत्सूद्विष" ३।२।६१ इत्यादिना क्विप्(), व्रश्चादिसूत्रेण ८।२।३६ षत्वम्(), तस्य "झलां जशोन्ते" ८।२।३९ इति जश्त्वम्()--डकारः, डकारस्यापि चत्र्वम्()--टकारः। "यत्रास्यैतद्रूपम्()" इति। क्व पुनरस्यैतद्रूपम्()? यत्र पदसंज्ञा; पदाधिकारे षकारादीनां विधानात्()। "वि()आराजौ, वि()आराजः" इति। अत्र पदसंज्ञा नास्ति, "असर्वनामस्थाने" १।४।१७ इति प्रतिषेधात्॥
बाल-मनोरमा
वि�आस्य वसुराटोः , ६।३।१२७

तस्य विशेषमाह--वि()आस्य वसु। "ढ्रलोपे" इत्यतो "दीर्घ इत्यनुवर्तते। तदाह--वि()आशब्दस्येति। वि()आवस्विति। "वसुग्र्रहेऽग्नौ योक्()त्रेंऽशौ वसु तोये धने मणौ" इति कोशः। "वि()आआवसु"रित्युदाहरणं प्रासङ्गिकम्। "आदित्यावि()आवसवः" इत्यमरप्रयोगे तु न दीर्घः, "नरे संज्ञाया"मित्यतः संज्ञाग्राहणापकर्षात्। ननु राट्शब्दस्य कृतचत्र्वस्य निर्देशाज्जश्त्वे सति दीर्घो न स्यादित्यत आह--राडिति अविवक्षितमिति। व्याख्यानादिति भावः। वि()आआराट् वि()आआराडिति। "व्रश्चे"ति षत्वम्। जश्त्वचर्त्वे। चत्र्वनिर्देशस्य पदान्तोपलक्षणत्वाज्जश्त्वपक्षेऽपि दीर्घः द्यपि त्रैपादिकं "व्रश्चे"ति षत्वं "चोः कु"रिति कुत्वात्परम्, तथापि चवर्गान्तव्रश्चादिविषये षत्वमपवादत्वान्नासिद्धम्, "अपवादो वचनप्रामाण्यात्" इति वि()आराजाविति। अपदान्तत्वान्न दीर्घ इति भावः। "भ्रस्ज पाके"क्विप्। "ग्राहिज्या" इति संप्रसारणं रेफस्य ऋकारः। "संप्रसारणाच्चे"ति पूर्वरूपम्। भृस्ज्शब्दः। ततः सुबुत्पत्तिः।

तत्त्व-बोधिनी
वि�आस्य वसुराटोः ३३९, ६।३।१२७

वि()आस्य वसु। "ढ्()रलोपे"इत्यतोऽनुवर्तनादाह---वि()आशब्दस्य दार्घः स्यादिति।