पूर्वम्: ६।३।१२५
अनन्तरम्: ६।३।१२७
 
सूत्रम्
चितेः कपि॥ ६।३।१२६
काशिका-वृत्तिः
चितेः कपि ६।३।१२७

चितिशब्दस्य कपि परतः दीर्घो भवति। एकचितीकः। द्विचितीकः। त्रिचितीकः।
न्यासः
चितेः कपि। , ६।३।१२६

"एकचितीकः" इति। एका चितिरस्येति बहुव्रीहिः, ततः "स्त्रियाः पुंवत्()" ६।३।३३ इत्यादिना पुंवद्भावः, "शेषाद्विभाषा" ५।४।१५४ इति कप्()॥
बाल-मनोरमा
चितेः कपि १०३२, ६।३।१२६

चितेः कपि। "दीर्घ" इति शेषः। एकचितीक इति। "अग्न्याख्यस्थण्डिलविशेष" इति शेषः। एका चितिर्यस्येति विग्रहः। शैषिकः कप्। द्विचितीक इति। द्वे चिती यस्येति विग्रहः।

तत्त्व-बोधिनी
चितेः कपि ८६७, ६।३।१२६

एकचितीक इति। "शेषाद्बिभाषे"ति कपे। "दंष्ट्रे"ति वार्तिके दीर्घान्तः पबठ()ते। केचित्तु ह्यस्वान्तं पठित्वा "()आआदंष्ट्रः"इति बहुव्रीहौ दीर्घमाहुः, न तु तत्पुरुषे। इह षादिति। "काश्र्य"इति तालव्यापाठस्त्वनार्ष इति भावः। वनस्पतिभ्यो वनस्य णत्वमुदाहरति।