पूर्वम्: ६।३।११२
अनन्तरम्: ६।३।११४
 
सूत्रम्
संहितायाम्॥ ६।३।११३
काशिका-वृत्तिः
संहितायाम् ६।३।११४

संहितायाम् इत्ययम् अधिकारः। यदिति ऊर्ध्वम् अनुक्रमिष्यामः संहितायाम् इत्येवं तद् वेदितव्यम्। वक्ष्यति द्व्यचो ऽतस् तिङः ६।३।१३४ इति। विद्मा हि त्वा गोपतिं शूर गोनाम्। संहितायाम् इति किम्? विद्म, हि, त्वा, गोपतिं, शूर, गोनाम्।
न्यासः
संहितायाम्?। , ६।३।११३

"उत्तरपदे" ६।३।१ इति वत्र्तते उत्तरपदं च समासे भवति, तत्र चान्तरेणापि वचनं नित्यमेव संहितया भवितव्यम्(), तस्मादुत्तरपदे परतो वक्ष्यमाणानां यत्? कार्यं न तदर्थताधिकारस्योपपद्यत इति यदनुत्तरपदे कार्यं तदर्थमेवायमधिकारः। तेन यैर्योगैरुत्तरपदे कार्यं विधीयते तानुल्लङ्घ्य तेन योगेनानुत्तरपदे कार्यं विधीयते तत्रास्योपयोगं दर्शयन्नाह--"वक्ष्यति द्व्यचोऽतस्तिङः" इत्यादि। "विद्मा हि त्वा" इत्यादि। विदेर्लोटि मसः "स उत्तमस्य" ३।४।९८ इति सकारलोपः, अदादित्वाच्छापो लुक्()॥
बाल-मनोरमा
संहितायाम् १०२०, ६।३।११३

संहितायाम्। सुगमम्।

तत्त्व-बोधिनी
संहितायाम् ८६१, ६।३।११३

संहितायाम्। तेन "द्विगुणाकर्णः"इत्यादाववग्रहे दीर्घो न भवतीति सूत्राशयमुत्प्रेक्षयन्ति। अधिकारोऽयमिति। तेन "विद्मा हि त्वा"इत्यादौ पदकाले "व्द्यचोऽतस्तिङः"इति दीर्घो नेत्यादिप्रयोजनान्यीह्रानीति।