पूर्वम्: ६।३।१११
अनन्तरम्: ६।३।११३
 
सूत्रम्
साढ्यै साढ्वा साढेति निगमे॥ ६।३।११२
काशिका-वृत्तिः
साढ्यै साढ्वा साढ इति निगमे ६।३।११३

साध्यै साढ्वा साढा इति निगमे निपात्यनते। साढ्यै समन्तात् साढ्वा शत्रून्। सहेः क्त्वाप्रत्यये ओत्वाभावः। पक्षे क्त्वाप्रत्ययस्य ध्यैभावः। साढा इति तृचि रूपमेतत्। निगमे इति किम्? सोढ्वा, सोढा इति भाषायाम्।
न्यासः
साढ�ऐ सढ्वा साढेति निगमे। , ६।३।११२

साढ्वेत्यादौ ओत्त्वाभावो निपात्यते। दीर्घस्तु "ढ्रलोपे" ६।३।११० इत्यादिनैव सिद्धः॥