पूर्वम्: ६।३।८
अनन्तरम्: ६।३।१०
 
सूत्रम्
कारनाम्नि च प्राचां हलादौ॥ ६।३।९
काशिका-वृत्तिः
कारनाम्नि च प्राचां हलादौ ६।३।१०

प्राचां देशे यत्कारनाम तत्र हलादवुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्याः अलुग् भवति। सूपेशाणः। दृषदिमाषकः। हलेद्विपदिका। हलेत्रिपदिका। कारविशेषस्याः संज्ञा एताः, तत्र पूर्वेण एव सिद्धे नियमार्थम् इदम्। एते च त्रयो नियमविकल्पा अत्रेष्यन्ते, कारनाम्न्येव, प्राचाम् एव, हलादावेव इति। कारनाम्नि इति किम्? अभ्यर्हिते पशुः अभ्यर्हितपशुः। कारादन्यस्या एतद् देयस्य नाम। प्राचाम् इति किम्? यूथे पशुः यूथपशुः। हलादौ इति किम्? अविकटे उरणः अविकटोरणः। हलदन्तादित्येव, नद्यां दोहनी नदीदोहनी।
न्यासः
कारनाम्नि च प्राचां हलादौ। , ६।३।९

वणिग्भिः कर्षकैः पशुपालैश्च राज्ञे देयो भागो रक्षानिबन्धनः=कारः, तस्य नाम कारनाम। "कूपेशाणम्()" इत्यादौ "र्सज्ञायाम्()" २।१।४३ इति समासः। "हलेद्विपदिका" इति। द्वौ द्वौ पादौ देयौ द्विपादिका, "पादशतस्य" ५।४।१ इत्यादिना वुन्(), अलोन्त्यलोपश्च, "पादः पत्()" ६।४।१३० इति पदादेशः। "कारविशेषस्य" इत्यादिनास्य सूत्रस्य नियमार्थतां दर्शयति। नियमविकल्पाः--नियमविशेषा इत्यर्थः। "कारनाम्नि च" इत्यादिना तेषां नियमविकलपानां स्वरूपं दर्शयति। एते च नियमविकल्पाः कारनाम्नि, प्राचाम्, हलादावित्येषां पदानामिह नियमवाक्य उपादानाललभ्यन्ते। यद्याद्यो नियमो नाभिप्रेतः स्यात्? तदा "कारनाम्नि" इति न ब्राऊयात्()। एवं यदि द्वितीयो नियममो नाभिप्रेतः स्यात्? तदा "प्राचाम्()" इत्येवं नोक्तं स्यात्()। तथा यदि तृतीयो नियमो नाभीष्टः स्यात्? "हलादौ" इत्येवं नोक्तं स्यात्()। अथ किमर्थं नामग्रहणम्(), न पूर्वयोगात्? संज्ञाग्रहणमनुवत्र्तते? पूर्वयोगे संज्ञाया उपाधेः प्रायिकत्वसूचनार्थं नामग्रहणम्()। तेन ह्मदिस्पृक्(), दिविस्पृगित्यत्रासंज्ञायामप्यलुक्सिद्धो भवति॥
बाल-मनोरमा
कारनाम्नि च प्राचां हलादौ ९५३, ६।३।९

कारनाम्नि। यत्रकारनामेति। राजग्राह्रो भागः करः, स एव कारः, तद्विशेषवाचक इत्यर्थः। नियमार्थमिति। "प्राचां देशे हलादौ यदि भवति कारनाम्न्येव," "कारनाम्नि हलादौ चेत्प्राचामेव," "प्राचां कारनाम्नि चेद्धलादावेवे"ति नियमत्रयार्थमित्यर्थः। अविकटोरण इति। अविशब्दासङ्घाते कटच्। उपणो मेषः। नद्यामिति। नद्युत्तारणे तात्कालिको दोहः-करः।

तत्त्व-बोधिनी
कारनाम्नि च प्राचां हलादौ ८२३, ६।३।९

अविकटोरण इति। सङ्घाते कट जिति कटच्प्रत्ययान्तः। उरणो-मेषः।